Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 176
ऋषिः - गोधा ऋषिका
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
6
न꣡कि꣢ देवा इनीमसि꣣ न꣡ क्या यो꣢꣯पयामसि । म꣣न्त्र꣡श्रु꣢त्यं चरामसि ॥१७६॥
स्वर सहित पद पाठन꣢ । कि꣣ । देवाः । इनीमसि । न꣢ । कि꣣ । आ꣢ । यो꣣पयामसि । मन्त्रश्रु꣡त्य꣢म् । म꣣न्त्र । श्रु꣡त्य꣢꣯म् । च꣣रामसि ॥१७६॥
स्वर रहित मन्त्र
नकि देवा इनीमसि न क्या योपयामसि । मन्त्रश्रुत्यं चरामसि ॥१७६॥
स्वर रहित पद पाठ
न । कि । देवाः । इनीमसि । न । कि । आ । योपयामसि । मन्त्रश्रुत्यम् । मन्त्र । श्रुत्यम् । चरामसि ॥१७६॥
सामवेद - मन्त्र संख्या : 176
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
विषयः - अथ प्रजाः स्वाचरणशुद्धिं प्रतिजानते।
पदार्थः -
ऋच इन्द्रदेवताकत्वाद् इन्द्रः सम्बोधनीयः। हे इन्द्र परमात्मन् राजन् वा ! हे (देवाः) दिव्यज्ञाना दिव्याचरणाश्च विद्वांसः ! वयम् (नकि२) नैव (इनीमसि३) हिंसाचरणं कुर्मः। ऋग्वेदे मिनीमसि इति पाठादत्र इण् धातुः क्र्यादिर्हिंसार्थः कल्पनीयः। (नकि) नैव च (आ योपयामसि४) विमोहनं, छलछद्माचरणं, वैक्लव्यं वा कुर्मः। युप विमोहने दिवादिरत्र णिजन्तः प्रयुक्तः। अपितु (मन्त्रश्रुत्यम्) मन्त्रश्रुत्या प्रोक्तं मन्त्रश्रुत्यं वेदमन्त्रनिर्दिष्टं कर्म (चरामसि) आचरामः आचरिष्यामश्च। चर गतिभक्षणयोः। इनीमसि, योपयामसि, चरामसि इति सर्वत्र इदन्तो मसि अ० ७।१।४६ इति मस इकारागमः ॥२॥५ अत्र त्रयाणामपि क्रियापदानामेककारकयोगाद् दीपकालङ्कारः। मसि इत्यस्य त्रिश आवर्तनाद् वृत्त्यनुप्रासश्च ॥२॥
भावार्थः - सर्वैर्जनैर्हिंसोपद्रवचौर्यादिकं छलछद्मवञ्चनादिकं च विहाय वेदानुसारेण पवित्रतया जीवनं यापनीयम् ॥२॥
टिप्पणीः -
१. ऋ० १०।१३४।७, नकिर्देवा मिनीमसि नकिरायोपयामसि। पक्षेभिरपिकक्षेभिरत्राभि संरभामहे ॥ इति पाठः। २. नकिं नकिः नकि इति त्रीणि नार्थे वर्तन्ते—इति भ०। ३. इनीमसि। मिनातेर्हिंसार्थस्य मकारलोपः—इति वि०। इनातिर्मिनातिना समानार्था हिंसाकर्मा—इति भ०। ४. नकि आयोपयामसि न मिश्रयामः सुष्टुतीर्दुष्टुतीश्च न मिश्रयामः—इति भ०। नकि न च योपयामः अननुष्ठानेन अन्यथानुष्ठानेन वा मोहयामः—इति सा०। ५. हे देवाः न इनीमसि प्राणिबन्धनकर्म पश्वादियागं न कुर्मः, नकि आ योपयामसि यूपनिखननम् अपि न कुर्मः, वृक्षौषध्यादि हिंसामपि न कुर्मः। प्राणिवधं न कुर्मः। किं तर्हि ? मन्त्रश्रुत्यं मन्त्रश्रवणीयं जपाख्यं चरामसि जपं कुर्वन्तश्चरामः। जपमेव कुर्म इत्यर्थः—इति विवरणकृदाशयः।