Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1779
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - पदपङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
5
ए꣣भि꣡र्नो꣢ अ꣣र्कै꣡र्भवा꣢꣯ नो अ꣣र्वा꣢ङ् स्वा३꣱र्ण꣡ ज्योतिः꣢꣯ । अ꣢ग्ने꣣ वि꣡श्वे꣢भिः सु꣣म꣢ना꣣ अ꣡नी꣢कैः ॥१७७९॥
स्वर सहित पद पाठए꣣भिः꣢ । नः꣣ । अर्कैः꣢ । भ꣡व꣢꣯ । नः꣣ । अर्वा꣢ङ् । स्वः꣡ । न । ज्यो꣡तिः꣢꣯ । अ꣡ग्ने꣢꣯ । वि꣡श्वे꣢꣯भिः । सु꣣म꣡नाः꣢ । सु꣣ । म꣡नाः꣢꣯ । अ꣡नी꣢꣯कैः ॥१७७९॥
स्वर रहित मन्त्र
एभिर्नो अर्कैर्भवा नो अर्वाङ् स्वा३र्ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥१७७९॥
स्वर रहित पद पाठ
एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । न । ज्योतिः । अग्ने । विश्वेभिः । सुमनाः । सु । मनाः । अनीकैः ॥१७७९॥
सामवेद - मन्त्र संख्या : 1779
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 5; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मा प्रार्थ्यते।
पदार्थः -
हे (अग्ने) जीवनाधार सर्वान्तर्यामिन् जगदीश ! त्वम् (एभिः) एतैः (अर्कैः) अर्चनसाधनैः वेदमन्त्रैः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।५] (नः अर्वाङ्) अस्मदभिमुखः (भव) जायस्व। त्वम् (स्वः न) सूर्य इव (ज्योतिः) ज्योतिःस्वरूपोऽसि। (सुमनाः) प्रसन्नमनाः त्वम् (विश्वेभिः) सर्वैः (अनीकैः२) सद्गुणसैन्यैः तेजोभिर्वा सह (नः अर्वाङ् भव) अस्मदभिमुखो भव ॥३॥३ अत्रोपमालङ्कारः ॥३॥
भावार्थः - यथा सूर्यः स्वरश्मिभिरस्मदभिमुखो जायते तथैव जगदीश्वरोऽखिलैः सद्गुणैस्तेजोभिश्चास्मान् प्राप्नुयात् ॥३॥ अस्मिन् खण्डे आनन्दधाराणां परमेश्वरस्य जीवात्मनो द्विजन्मनश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
इस भाष्य को एडिट करें