Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1784
ऋषिः - बृहदुक्थो वामदेव्यः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
ऐ꣡भि꣢र्ददे꣣ वृ꣢ष्ण्या꣣ पौ꣡ꣳस्या꣢नि꣣ ये꣢भि꣣रौ꣡क्ष꣢द्वृत्र꣣ह꣡त्या꣢य व꣣ज्री꣢ । ये꣡ कर्म꣢꣯णः क्रि꣣य꣡मा꣢णस्य म꣣ह्न꣡ ऋ꣢ते क꣣र्म꣢मु꣣द꣡जा꣢यन्त दे꣣वाः꣢ ॥१७८४॥
स्वर सहित पद पाठआ । ए꣣भिः । ददे । वृ꣡ष्ण्या꣢꣯ । पौ꣡ꣳस्या꣢꣯नि । ये꣡भिः꣢꣯ । औ꣡क्ष꣢꣯त् । वृ꣣त्रह꣡त्या꣢य । वृ꣣त्र । ह꣡त्या꣢꣯य । व꣣ज्री꣢ । ये । क꣡र्म꣢꣯णः । क्रि꣣य꣡मा꣢णस्य । म꣣ह्ना꣢ । ऋ꣣तेकर्म꣢म् । ऋ꣣ते । कर्म꣢म् । उ꣣द꣡जा꣢यन्त । उ꣣त् । अ꣡जा꣢꣯यन्त । दे꣣वाः꣢ ॥१७८४॥
स्वर रहित मन्त्र
ऐभिर्ददे वृष्ण्या पौꣳस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋते कर्ममुदजायन्त देवाः ॥१७८४॥
स्वर रहित पद पाठ
आ । एभिः । ददे । वृष्ण्या । पौꣳस्यानि । येभिः । औक्षत् । वृत्रहत्याय । वृत्र । हत्याय । वज्री । ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋतेकर्मम् । ऋते । कर्मम् । उदजायन्त । उत् । अजायन्त । देवाः ॥१७८४॥
सामवेद - मन्त्र संख्या : 1784
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि स एव विषय उच्यते।
पदार्थः -
(मह्नः कर्मणः) महतः सृष्ट्युत्पत्त्यादिकर्मणः (क्रियमाणस्य) विधीयमानस्य सतः (ये देवाः) ये दिव्यगुणाः इन्द्रे परमेश्वरे (ऋते कर्मम्) प्रयत्नं विनैव, स्वभावतः इत्यर्थः (उदजायन्त) उद्भूताः, (येभिः) यैः देवैः दिव्यगुणैः, (वज्री) वज्रधरः इव स इन्द्रो जगदीश्वरः, (वृत्रहत्याय) विघ्नानां हननाय (औक्षत्) जीवात्मानम् असिञ्चत्, (एभिः) एतैस्तैर्दिव्यगुणैः अद्यापि सः (वृष्ण्या) वृष्ण्यानि सुखवर्षकाणि (पौंस्यानि) बलकर्माणि (आददे) गृह्णाति, करोतीत्यर्थः ॥३॥
भावार्थः - परमेश्वरे स्वभावतः सदातना ये गुणाः सन्ति तैरेव स समग्रं सृष्टिव्यापारं करोति, तेषां गुणानां कञ्चिदंशं स मनुष्येष्वपि निदधाति येन ते विघ्नपापदोषादीनां विनाशाय प्रभवन्ति ॥३॥
इस भाष्य को एडिट करें