Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 180
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

इ꣢꣯न्द्रेहि꣣ म꣡त्स्यन्ध꣢꣯सो꣡ वि꣡श्वे꣢भिः सोम꣣प꣡र्व꣢भिः । म꣣हा꣡ꣳ अ꣢भि꣣ष्टि꣡रोज꣢꣯सा ॥१८०॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । आ । इ꣣हि । म꣡त्सि꣢꣯ । अ꣡न्ध꣢꣯सः । वि꣡श्वे꣢꣯भिः । सो꣣म꣡पर्व꣢भिः । सो꣣म । प꣡र्व꣢꣯भिः । म꣣हा꣢न् । अ꣣भिष्टिः꣢ । ओ꣡ज꣢꣯सा ॥१८०॥


स्वर रहित मन्त्र

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । महाꣳ अभिष्टिरोजसा ॥१८०॥


स्वर रहित पद पाठ

इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वभिः । सोम । पर्वभिः । महान् । अभिष्टिः । ओजसा ॥१८०॥

सामवेद - मन्त्र संख्या : 180
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। हे (इन्द्र) दुर्गुणविदारक सद्गुणप्रदायक परमेश्वर ! त्वम् (आ इहि) अस्माकं जीवनयज्ञम् आगच्छ, (अन्धसः) अस्मत्पुरुषार्थरूपाद् अन्नात्। अन्धः इति अन्ननाम। निघं० २।७। (विश्वेभिः) समस्तैः (सोमपर्वभिः) भक्तिसमारोहैश्च (मत्सि) हृष्टो भव। मदी हर्षे दिवादिः, लोटि बहुलं छन्दसि।’ अ० २।४।७३ इति श्यनो लुक्। मद्धि इति प्राप्ते, सर्वे विधयश्छन्दसि विकल्प्यन्ते इति सेर्हिरादेशो न भवति। त्वम् (महान्) महिमवान्, किञ्च (ओजसा) बलेन (अभिष्टिः२) अस्माकं कामादिरिपून् प्रति आक्रान्ता, वर्तसे इति शेषः। अभि पूर्वात् इष गतौ धातोः मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः। अ० ३।३।९६ इति भावे विहितः क्तिन् अत्र बाहुलकात् कर्तरि ज्ञेयः। अभीष्टिः इति प्राप्ते एमन्नादिषु छन्दसि पररूपं वाच्यम्।’ अ० ६।१।९४ वा० इति पररूपम् ॥ अथ द्वितीयः—विद्वत्परः। हे (इन्द्र) विद्यैश्वर्ययुक्त विद्वन् ! त्वम् (आ इहि) आगच्छ, (अन्धसः) सात्त्विकाद् अन्नात्, (विश्वेभिः) समस्तैः (सोमपर्वभिः) बलवृद्धिकरीणां सोमाद्योषधीनां खण्डैश्च (मत्सि) तृप्यस्व। त्वम् (महान्) महागुणोपेतः, किञ्च (ओजसा) विद्याबलेन (अभिष्टिः) अभीष्टानां प्रापयिता यद्वा समाजस्य अविद्यादुराचारादिदुर्गुणान् प्रति आक्रान्ता भव इति शेषः ॥६॥३ अत्र श्लेषालङ्कारः ॥६॥

भावार्थः - यथा पुरुषार्थेन भक्त्या च प्रसादितः परमेश्वरो मनुष्याणां कामक्रोधहिंसोपद्रवादीन् सर्वान् रिपून् क्षणेनैव विद्रावयति, तथा विद्वान् जनः सात्त्विकपुष्टिप्रदान्नौषध्यादिभिः परिपुष्टः सन् राष्ट्रादविद्यादीन् दुर्गुणान् सद्य एव विद्रावयेत् ॥६॥

इस भाष्य को एडिट करें
Top