Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1822
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - ऋषभः काण्ड नाम -
3

प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः । य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥१८२२॥

स्वर सहित पद पाठ

प्रः꣢ । सः । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । सु꣣वी꣡रा꣢भिः । सु꣣ । वी꣡रा꣢꣯भिः । त꣣रति । वा꣡ज꣢꣯कर्मभिः । वा꣡ज꣢꣯ । क꣣र्मभिः । य꣡स्य꣢꣯ । त्वम् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । आ꣡वि꣢꣯थ ॥१८२२॥


स्वर रहित मन्त्र

प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ सख्यमाविथ ॥१८२२॥


स्वर रहित पद पाठ

प्रः । सः । अग्ने । तव । ऊतिभिः । सुवीराभिः । सु । वीराभिः । तरति । वाजकर्मभिः । वाज । कर्मभिः । यस्य । त्वम् । सख्यम् । स । ख्यम् । आविथ ॥१८२२॥

सामवेद - मन्त्र संख्या : 1822
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनायक जगदीश्वर ! (सः) असौ जनः (सुवीराभिः) श्रेष्ठाः वीराः प्राप्यन्ते याभिः ताभिः (वाजकर्मभिः) बलोत्साहकारिणीभिः (तव ऊतिभिः) त्वदीयाभिः रक्षाभिः (प्र तिरति) प्रवर्द्धते, दुःखानि अत्यन्तं तरति वा, यस्य जनस्य (त्वम्) महाबलः (सख्यम्) मैत्रीम् (आविथ) प्राप्नोषि, स्वीकरोषि ॥१॥

भावार्थः - कस्तं बाधितुं दुःखयितुं वा प्रभवेद् यस्य खलु जगदीशः सखा ॥१॥

इस भाष्य को एडिट करें
Top