Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1848
ऋषिः - वेनो भार्गवः
देवता - वेनः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
9
द्र꣣प्सः꣡ स꣢मु꣣द्र꣢म꣣भि꣡ यज्जिगा꣢꣯ति꣣ प꣢श्य꣣न्गृ꣡ध्र꣢स्य꣣ च꣡क्ष꣢सा꣣ वि꣡ध꣢र्मन् । भा꣣नुः꣢ शु꣣क्रे꣡ण꣢ शो꣣चि꣡षा꣢ चका꣣न꣢स्तृ꣣ती꣡ये꣢ चक्रे꣣ र꣡ज꣢सि प्रि꣣या꣡णि꣢ ॥१८४८॥
स्वर सहित पद पाठद्र꣣प्सः꣢ । स꣣मुद्र꣢म् । स꣢म् । उद्र꣢म् । अ꣣भि꣢ । यत् । जि꣡गा꣢꣯ति । प꣡श्य꣢꣯न् । गृ꣡ध्र꣢꣯स्य । च꣡क्ष꣢꣯सा । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । भानुः꣢ । शु꣣क्रे꣡ण꣢ । शो꣣चि꣡षा꣢ । च꣣कानः꣢ । तृ꣣ती꣡ये꣢ । च꣣क्रे । र꣡ज꣢꣯सि । प्रि꣣या꣡णि꣢ ॥१८४८॥
स्वर रहित मन्त्र
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥१८४८॥
स्वर रहित पद पाठ
द्रप्सः । समुद्रम् । सम् । उद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विधर्मन् । वि । धर्मन् । भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥१८४८॥
सामवेद - मन्त्र संख्या : 1848
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 5; मन्त्र » 3
Acknowledgment
विषयः - अथ मोक्षावस्थायां जीवात्मनः परमात्मदर्शनमुच्यते।
पदार्थः -
(द्रप्सः) जलबिन्दुवद् अणुपरिमाणो जीवात्मा (यत्) यदा (समुद्रम् अभि) आनन्दरसागारं परमात्मानं प्रति (जिगाति) गच्छति। [जिगातिः गतिकर्मा। निघं० २।१४।] तदा (विधर्मन्) विधर्मणि विशेषेण धारके मोक्षलोके स जीवस्तं परमात्मानम् (गृध्रस्य चक्षसा) गृध्रस्य इव तीव्रदृष्ट्या (पश्यन्) अवलोकयन् भवति। (तृतीये रजसि) तृतीये धामनि मोक्षलोके (शुक्रेण) पवित्रेण (शोचिषा) तेजसा (चकानः) दीप्यमानः [कनी दीप्तिकान्तिगतिषु, भ्वादिः।] (भानुः) परमात्मसूर्यः, तस्य जीवात्मनः (प्रियाणि) आनन्दवृष्टिप्रदानादीनि अभीप्सितानि (चक्रे) साधयति ॥३॥ अस्मिन् मन्त्रे परमात्मनि भानुत्वारोपाद् रूपकालङ्कारः ॥३॥
भावार्थः - मोक्षाय प्रयतमानो जीवो रससेक्तारं तेजस्विनं जगदीश्वरं प्राप्य रससिक्तस्तेजोमयश्च जायते ॥३॥ अस्मिन् खण्डे मनुष्याकाङ्क्षाया वेदवाचो ब्रह्मानन्दधारायाः प्राणस्य जीवात्मनो मोक्षप्राप्तेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें