Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1862
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रो मरुतो वा
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
6
प्रे꣢ता꣣ ज꣡य꣢ता नर꣣ इ꣡न्द्रो꣢ वः꣣ श꣡र्म꣢ यच्छतु । उ꣣ग्रा꣡ वः꣢ सन्तु बा꣣ह꣡वो꣢ऽनाधृ꣣ष्या꣡ यथास꣢꣯थ ॥१८६२॥
स्वर सहित पद पाठप्र꣢ । इ꣣त । ज꣡य꣢꣯त । न꣣रः । इ꣡न्द्रः꣢꣯ । वः꣣ । श꣡र्म꣢꣯ । य꣣च्छतु । उग्राः꣢ । वः꣣ । सन्तु । बाह꣡वः꣢ । अ꣣नाधृष्याः꣢ । अ꣣न् । आधृष्याः꣢ । य꣡था꣢꣯ । अ꣡स꣢꣯थ ॥१८६२॥
स्वर रहित मन्त्र
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥१८६२॥
स्वर रहित पद पाठ
प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु । उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । अन् । आधृष्याः । यथा । असथ ॥१८६२॥
सामवेद - मन्त्र संख्या : 1862
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 5; मन्त्र » 2
Acknowledgment
विषयः - अथ वीरानुद्बोधयति।
पदार्थः -
हे (नरः) वीरा योद्धारः ! (प्रेत) अग्रे गच्छत, (जयत) विजयं प्राप्नुत। (इन्द्रः) युष्माकं वीरः अन्तरात्मा (वः) युष्मभ्यम् (शर्म) कल्याणम् (यच्छतु) ददातु। (वः) युष्माकम् (बाहवः) भुजाः (उग्राः) उद्गूर्णबलाः, प्रचण्डाः (सन्तु) भवन्तु, (यथा) येन यूयम् (अनाधृष्याः) केनाप्यपराजेयाः (असथ) भवत। [संहितायां ‘प्रेता’ इत्यत्र ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति ‘जयता’ इत्यत्र च ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। असथ, अस्तेर्लेटि मध्यमबहुवचनम्] ॥२॥२ अत्र वीरो रसः ॥२॥
भावार्थः - मनुष्येषूद्बोधनं तदैव संभवति यदि तेषामात्मा सबलो भवेत्। अतः स्वात्मानं बलिनं विधायोद्बोधनं प्राप्य जीवनसंग्रामे सर्वैर्विजयः प्राप्तव्यः ॥२॥
इस भाष्य को एडिट करें