Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1868
ऋषिः - शासो भारद्वाजः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
वि꣡ न꣢ इन्द्र꣣ मृ꣡धो꣢ जहि नी꣣चा꣡ य꣢च्छ पृतन्य꣣तः꣢ । यो꣢ अ꣣स्मा꣡ꣳ अ꣢भि꣣दा꣢स꣣त्य꣡ध꣢रं गमया꣣ त꣡मः꣢ ॥१८६८॥
स्वर सहित पद पाठवि । नः꣣ । इन्द्र । मृ꣡धः꣢꣯ । ज꣣हि । नीचा꣢ । य꣣च्छ । पृतन्यतः꣢ । यः । अ꣣स्मा꣢न् । अ꣣भिदा꣡स꣢ति । अ꣣भि । दा꣡स꣢꣯ति । अ꣡ध꣢꣯रम् । ग꣣मय । त꣡मः꣢꣯ ॥१८६८॥
स्वर रहित मन्त्र
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माꣳ अभिदासत्यधरं गमया तमः ॥१८६८॥
स्वर रहित पद पाठ
वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । यः । अस्मान् । अभिदासति । अभि । दासति । अधरम् । गमय । तमः ॥१८६८॥
सामवेद - मन्त्र संख्या : 1868
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 7; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 7; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
हे (इन्द्र) जीवात्मन् सेनापते वा ! त्वम् (नः) अस्माकम् (मृधः) हिंसकान् (विजहि) विनाशय, (पृतन्यतः) सेनया अभिगच्छतः कामक्रोधादीन् बाह्यांश्च शत्रून् (नीचा यच्छ) नीचीनं गमय। (यः) आन्तरो बाह्यो वा शत्रुः (अस्मान्) धार्मिकान् (अभिदासति) सर्वतः उपक्षयति [दसु उपक्षये, लेटि वर्णव्यत्ययेनाऽकारस्य स्थाने आकारः] तम् (अधरं तमः गमय) घोरां दुर्गतिम् अधरं कारागारं वा प्रापय ॥२॥२
भावार्थः - यथा सेनापतिर्दुष्टान् शत्रून् हन्ति कारागारे वा प्रक्षिपति तथैव देहाधिष्ठाता जीवात्मा सर्वानान्तरान् सपत्नान् घोरां दुर्गतिं नीत्वा विनाश्य वा निष्कण्टकं स्वसाम्राज्यं स्थापयेत् ॥२॥
इस भाष्य को एडिट करें