Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 195
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
गि꣡र्व꣢णः पा꣣हि꣡ नः꣢ सु꣣तं꣢꣫ मधो꣣र्धा꣡रा꣢भिरज्यसे । इ꣢न्द्र꣣ त्वा꣡दा꣢त꣣मि꣡द्यशः꣢꣯ ॥१९५॥
स्वर सहित पद पाठगि꣡र्व꣢꣯णः । गिः । व꣣नः । पाहि꣢ । नः꣣ । सुत꣢म् । म꣡धोः꣢꣯ । धा꣡रा꣢꣯भिः । अ꣣ज्यसे । इ꣡न्द्र꣢꣯ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । इ꣢त् । य꣡शः꣢꣯ ॥१९५॥
स्वर रहित मन्त्र
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥१९५॥
स्वर रहित पद पाठ
गिर्वणः । गिः । वनः । पाहि । नः । सुतम् । मधोः । धाराभिः । अज्यसे । इन्द्र । त्वादातम् । त्वा । दातम् । इत् । यशः ॥१९५॥
सामवेद - मन्त्र संख्या : 195
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
विषयः - अथेन्द्रनाम्ना परमात्मा गुरुश्च प्रार्थ्यते।
पदार्थः -
हे (गिर्वणः२) गीर्भिः स्तुतिवाग्भिः आदरवचनैर्वा वननीय संसेव्य याचनीय वा परमात्मन् आचार्य वा ! त्वम् (नः) अस्माकम् (सुतम्) अभिषुतम् अर्जितं ज्ञानरसं विविधविद्याविज्ञानम् (पाहि) रक्ष। त्वम् (मधोः) मधुरस्य ज्ञानराशेः (धाराभिः) प्रवाहैः (अज्यसे) संसिक्तोऽसि, अगाधज्ञानविज्ञानराशेः सागरोऽसीत्यर्थः। अज गतिक्षेपणयोः। गतिरत्र संसेचनमभिप्रेतम्। (इन्द्र) हे ज्ञानैश्वर्यवन् परमात्मन् आचार्य वा ! (त्वादातम्) त्वया दातं शोधितं, संशोध्य धवलीकृतम्। दातम् इति दैप् शोधने धातोर्निष्ठायां रूपम्। ततो युष्मद्दातपदयोः समासः। (इत्) एव (यशः) विविधविद्यासदाचरणसमुत्पन्नं कीर्तिजातम् नः अस्तु इति शेषः। यद्वा, हे परमात्मन् आचार्यप्रवर वा ! (यशः) तपोब्रह्मचर्यवैदुष्यव्रतपालनादिजन्यं कीर्तिजातम् (त्वादातम्३ इत्) त्वयैव दातव्यमस्ति, तत् त्वं देहीत्यर्थः। त्वादातम् त्वया दातव्यम् इति निरुक्तम्। ४।४ ॥२॥४ अत्र श्लेषालङ्कारः ॥२॥
भावार्थः - गुरुकुलेऽधीयानाश्छात्रा आचार्यं प्रार्थयन्ते यद् भो आचार्यप्रवर ! त्वमगाधपाण्डित्यनिधिः शिक्षणकलायां च परमप्रवीणोऽसि। भ्रान्त्यपूर्णतादिदोषैर्निर्मुक्तं स्वच्छं ज्ञानमस्मदभ्यन्तरे प्रवाहय, स्थिरं च कुरु। तदैवास्माकं धवलं यशः सर्वत्र प्रसरिष्यति। तथैव समग्रविद्याविद्योतितः स्वच्छज्ञाननिधिः परमात्मापि प्रार्थ्यते। तदेव यशो वस्तुतत्वेन यशोऽस्ति यत् परमात्मन आशीर्वादेन धवलितं भवति ॥२॥
टिप्पणीः -
१. ऋ० ३।४०।६, अथ० २०।६।६। २. द्रष्टव्यम्—१६५ संख्यकमन्त्रस्य भाष्यम्। ३. त्वादातम् त्वया दत्तम्—इति वि०, भ०। त्वया शोधितं विशदीकृतम्—इति सा०। ४. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रो राजप्रजापक्षे व्याख्यातः।