Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 215
ऋषिः - श्रुतकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
6
अ꣡त꣢श्चिदिन्द्र न꣣ उ꣡पा या꣢꣯हि श꣣त꣡वा꣢जया । इ꣣षा꣢ स꣣ह꣡स्र꣢वाजया ॥२१५॥
स्वर सहित पद पाठअ꣡तः꣢꣯ । चि꣣त् । इन्द्र । नः । उ꣡प꣢꣯ । आ । या꣣हि । शत꣡वा꣢जया । श꣣त꣢ । वा꣣जया । इषा꣢ । स꣣ह꣡स्र꣢वाजया । स꣣ह꣡स्र꣢ । वा꣣जया । ॥२१५॥
स्वर रहित मन्त्र
अतश्चिदिन्द्र न उपा याहि शतवाजया । इषा सहस्रवाजया ॥२१५॥
स्वर रहित पद पाठ
अतः । चित् । इन्द्र । नः । उप । आ । याहि । शतवाजया । शत । वाजया । इषा । सहस्रवाजया । सहस्र । वाजया । ॥२१५॥
सामवेद - मन्त्र संख्या : 215
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
विषयः - अथेन्द्रः कैर्वस्तुभिः सहास्मान् प्राप्नुयादित्याह।
पदार्थः -
प्रथमः—परमात्मपरः। (अतः चित्) अत एव, यतः पूर्वमन्त्रोक्तरीत्या वाजं कामयमाना वयं त्वां मैत्रीरसैः सिञ्चामस्तस्मादित्यर्थः, हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर ! त्वम् (शतवाजया) शतबलयुक्तया। वाज इति बलनाम। निघं० २।९। (सहस्रवाजया) सहस्रविज्ञानयुक्तया२ (इषा) एष्टव्यया आनन्दरससंतत्या सह। इषु इच्छायाम्, तुदादिः, ततः क्विप्। तृतीयैकवचने रूपम्। (नः) अस्मान् (उप आयाहि) उपागच्छ ॥ अथ द्वितीयः—राजपरः। हे (इन्द्र) शत्रुविदारक धनाधिप राजन् ! त्वम् (अतः चित्) अस्मात् स्वकीयात् राजनगरात्। अत्र चिदिति पूरणः। (शतवाजया) बहुबलवेगयुक्तया, (सहस्रवाजया) सहस्रसंग्रामसमर्थया। वाज इति संग्रामनाम। निघं० २।१७। (इषा) सेनया३ सह (नः) अस्मान् शत्रुभिः पीडितान् प्रजाजनान् (उप आयाहि) उपागच्छ ॥ अथ तृतीयः—आचार्यपरः। हे (इन्द्र)अविद्याविदारक ज्ञानैश्वर्यसम्पन्न आचार्यप्रवर ! त्वम् (अतः चित्) अस्मात् स्वकीयात् कुटीरात् (शतवाजया) प्रचुरबलयुक्तया, (सहस्रवाजया) बहुज्ञानयुक्तया (इषा) ब्रह्मचर्यादिव्रतपालनप्रेरणया सह (नः) अस्मान् त्वदीयशिष्यान् (उप आयाहि) उपागच्छ ॥२॥ अत्र श्लेषालङ्कारः। उपमानोपमेयभावश्च ध्वन्यते। ‘वाजया’ इति भिन्नार्थकस्य सकृदावृत्तौ यमकालङ्कारः ॥२॥
भावार्थः - यथा राजा बलवत्या संग्रामकुशलया सेनया सह प्रजाजनान्, आचार्यश्च बलविद्यायुक्तया सदाचारप्रेरणया सह शिष्यान् उपागच्छति तथैव परमात्मा बलविज्ञानवत्याऽऽनन्दरसधारया सहास्मानुपेयात् ॥२॥
टिप्पणीः -
१. ऋ० ८।९२।१०। २. वाजम् विज्ञानम् इति ऋ० १।११७।१० भाष्ये द०। ३. इषः इष्यन्ते यास्ताः सेनाः, अत्र ‘कृतो बहुलम्’ इति वार्तिकेन कर्मणि क्विप्, इति ऋ० १।९।८ भाष्ये द०। इष गतौ, दिवादिः।