Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 223
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

अ꣡ती꣢हि मन्युषा꣣वि꣡ण꣢ꣳ सुषु꣣वा꣢ꣳस꣣मु꣡पे꣢꣯रय । अ꣣स्य꣢ रा꣣तौ꣢ सु꣣तं꣡ पि꣢ब ॥२२३॥

स्वर सहित पद पाठ

अ꣡ति꣢꣯ । इ꣣हि । मन्युषावि꣡ण꣢म् । म꣣न्यु । सावि꣡न꣢म् । सु꣣षुवाँ꣡स꣢म् । उ꣡प꣢꣯ । आ । ई꣣रय । अस्य꣢ । रा꣣तौ꣢ । सु꣣त꣢म् । पि꣣ब ॥२२३॥


स्वर रहित मन्त्र

अतीहि मन्युषाविणꣳ सुषुवाꣳसमुपेरय । अस्य रातौ सुतं पिब ॥२२३॥


स्वर रहित पद पाठ

अति । इहि । मन्युषाविणम् । मन्यु । साविनम् । सुषुवाँसम् । उप । आ । ईरय । अस्य । रातौ । सुतम् । पिब ॥२२३॥

सामवेद - मन्त्र संख्या : 223
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

पदार्थः -
प्रथमः—अध्यात्मपरः। हे इन्द्र परमेश्वर ! त्वम् (मन्युषाविणम्२) यो मन्युना उन्मनस्त्वेन हार्दिकप्रीतिराहित्येन सुनोति उपास्ते तम् (अति इहि) अतिक्रम्य गच्छ। (सुषुवांसम्) हार्दिकप्रीत्या उपासनारसमभिषुतवन्तम्। षुञ् अभिषवे, लिटः क्वसुः। (उप-आ-ईरय) स्वान्तिके आनय। ईर गतौ कम्पने च, ण्यन्तः। अस्य यजमानस्य (रातौ) आत्मसमर्पणे प्रवृत्ते सति (सुतम्) अभिषुतम् श्रद्धारसम् (पिब) आस्वादय ॥ अथ द्वितीयः—राष्ट्रपरः। हे इन्द्र राजन् ! त्वम् (मन्युषाविणम्) क्रोधोद्वमितारं दुष्टशत्रुम् (अति-इहि) पराजयस्व। (सुषुवांसम्) करप्रदानरूपं सोमसवनं कृतवन्तं प्रजाजनम् (उप-आ-ईरय) उपेत्य शुभकर्मसु प्रेरय। (अस्य) प्रजाजनस्य (रातौ) करप्रदाने प्रवृत्ते सति (सुतम्) अभिषुतं करम् (पिब) स्वीकुरु, स्वीकृत्य च “प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्। “सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः” (रघु० १।१८) इति न्यायेन सहस्रगुणं कृत्वा प्रजाहितायैव व्ययस्व ॥ अथ तृतीयः—अध्ययनाध्यापनपरः। हे इन्द्र विद्युद्वत्तीव्रबुद्धे विद्यैश्वर्यजिज्ञासो विद्यार्थिन्३ ! त्वम् (मन्युषाविणम्) मन्युना कोपविद्वेषादिना सुनोति विद्यां ददाति यस्तं गुरुम् (अति-इहि) अतिक्रमस्व, तत्सकाशे विद्यामध्येतुं मा यासीः। (सुषुवांसम्) यः प्रेम्णा विद्यां ददाति तम् (उप-आ-ईरय) उपेत्य विद्यां दातुं प्रार्थय। (अस्य) प्रेम्णा विद्यादातुः गुरोः (रातौ) विद्यादाने प्रवृत्ते (सुतं) ज्ञानरसं (पिब) आस्वादय। देवेन मनसा रमणपद्धत्या च छात्राणामध्यापनमुचितमिति भावः। यथाह श्रुतिः—“पुन॒रेहि॑ वाचस्पते दे॒वेन॒ मन॑सा स॒ह। वसो॑ष्पते॒ निर॑मय॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम्। अथ० १।१।२” इति ॥१॥ अत्र श्लेषालङ्कारः ॥१॥

भावार्थः - परमेश्वरस्तस्य श्रद्धारसं न स्वीकरोति य उदासीनेन मनसा प्रयच्छति। राजापि शत्रुं न, प्रत्युत करप्रदातारं प्रजाजनमेव वर्द्धयति। गुरुभिरपि सरलपद्धत्या प्रेम्णा च छात्राः पाठनीयाः, न तु जटिलपद्धत्या क्रोधविद्वेषादिवशीभूतैर्वा ॥१॥

इस भाष्य को एडिट करें
Top