Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 232
ऋषिः - श्रुतकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
5
ए꣣वा꣡ ह्यसि꣢꣯ वीर꣣यु꣢रे꣣वा꣡ शूर꣢꣯ उ꣣त꣢ स्थि꣣रः꣢ । ए꣣वा꣢ ते꣣ रा꣢ध्यं꣣ म꣡नः꣢ ॥२३२॥
स्वर सहित पद पाठए꣣व꣢ । हि । अ꣡सि꣢꣯ । वी꣣रयुः꣢ । ए꣣व꣢ । शू꣣रः꣢ । उ꣣त꣢ । स्थि꣣रः꣢ । ए꣣व꣢ । ते꣣ । रा꣡ध्य꣢꣯म् । म꣡नः꣢꣯ ॥२३२॥
स्वर रहित मन्त्र
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । एवा ते राध्यं मनः ॥२३२॥
स्वर रहित पद पाठ
एव । हि । असि । वीरयुः । एव । शूरः । उत । स्थिरः । एव । ते । राध्यम् । मनः ॥२३२॥
सामवेद - मन्त्र संख्या : 232
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
विषयः - पुनरिन्द्रनाम्ना परमात्मा राजा च स्तूयते।
पदार्थः -
हे इन्द्र परमात्मन् राजन् वा ! (एव२ हि) सत्यमेव। एव इत्यवधारणार्थे। त्वम् (वीरयुः३) वीरान् कामयमानः। क्यचि, ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उ प्रत्ययः. (असि) वर्त्तसे। (एव) सत्यमेव, (त्वम् शूरः) विक्रान्तः, (उत) अपि च (स्थिरः) अविचलः असि। (एव) सत्यमेव (ते) तव (मनः) हृदयम् (राध्यम्४) संसाध्यम्, सत्कर्मादिभिरनुकूलयितुं शक्यम् अस्ति। ‘संहितायाम्’ ‘एवा’ इत्यत्र ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः ॥१०॥ अत्र अर्थश्लेषालङ्कारः ॥१०॥
भावार्थः - यथा परमेश्वरः स्वयं वीरः सुस्थिरोऽजय्यश्च सन् जगति वीरानेव कामयते, न भीरून्, तथैव राष्ट्रे राजापि भवेत् ॥१०॥ अत्रेन्द्रस्य सोमपानायाह्वानात्, तत्सख्यस्य महत्त्वकीर्तनात्, ततो बलयाचनाच्छूरादिरूपेण च तत्स्तवनात्, इन्द्रशब्देन आचार्यनृपत्यादीनां चापि चरित्रवर्णनाद् एतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्ति ॥ इति तृतीये प्रपाठके प्रथमार्धे चतुर्थी दशतिः। इति द्वितीध्याये द्वादशः खण्डः। समाप्तश्चायं द्वितीयोऽध्यायः ॥
टिप्पणीः -
१. ऋ० ८।९२।२८, ऋषिः श्रुतकक्षः सुकक्षो वा। अथ० २०।६०।१, ऋषिः सुकक्षः सुतकक्षो वा। साम० ८२४। २. एव शब्दः पदपूरणः—इति वि०। एव एवम्—इति भ०। ३. वीरा यजमानपुरुषाः तान् कामयते यः स वीरयुः। वीरयतेः युः प्रत्ययः—इति वि०। स्तोत्रकामः—इति भ०। वीरान् युद्धकर्मणि समर्थान् शत्रून् हन्तुं कामयमानः एव असि भवसि खलु—इति सा०। ४. आराधनीयम्—इति वि०। संग्रामधनयोग्यम्—इति भ०। स्तुतिभिराराधनीयम्—इति सा०।