Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 248
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

त्व꣡मि꣢न्द्र य꣣शा꣡ अ꣢स्यृजी꣣षी꣡ शव꣢꣯स꣣स्प꣡तिः꣢ । त्वं꣢ वृ꣣त्रा꣡णि꣢ हꣳस्यप्र꣣ती꣢꣫न्येक꣣ इ꣢त्पु꣣र्व꣡नु꣢त्तश्चर्षणी꣣धृ꣡तिः꣢ ॥२४८॥

स्वर सहित पद पाठ

त्व꣢म् । इ꣣न्द्र । यशाः꣢ । अ꣣सि । ऋजीषी꣢ । श꣡व꣢꣯सः । प꣡तिः꣢꣯ । त्वम् । वृ꣣त्रा꣡णि꣢ । हँ꣣सि । अप्रती꣡नि꣢ । अ꣣ । प्रती꣡नि꣢ । ए꣡कः꣢꣯ । इत् । पु꣣रु꣢ । अ꣡नु꣢꣯त्तः । अ । नु꣣त्तः । चर्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ ॥२४८॥


स्वर रहित मन्त्र

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । त्वं वृत्राणि हꣳस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥२४८॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पतिः । त्वम् । वृत्राणि । हँसि । अप्रतीनि । अ । प्रतीनि । एकः । इत् । पुरु । अनुत्तः । अ । नुत्तः । चर्षणीधृतिः । चर्षणि । धृतिः ॥२४८॥

सामवेद - मन्त्र संख्या : 248
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

पदार्थः -
हे (इन्द्र) परमेश्वर राजन् वा ! (त्वम् यशाः२) यशस्वी (असि) वर्तसे। (ऋजीषी३) ऋजु सरलं धर्ममार्गमिच्छतीति ऋजीषी सरलगुणकर्मस्वभावो वा (शवसः पतिः) बलस्य स्वामी च असि। (त्वम् एकः इत्) एकाकी एव (पुरु) पुरूणि बहूनि। पुरु इति बहुनाम। निघं० ३।१। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शिलोपः। (अप्रतीनि४) अप्रतिद्वन्द्वीनि (वृत्राणि) आन्तरिकान् बाह्यांश्च पापाचारान् शत्रून् (हंसि) दण्डयसि विनाशयसि वा। त्वम् (अनुत्तः) न केनापि नुत्तः बलात् प्रेरितः सन्। नुत्तः इति नुद प्रेरणे इत्यस्य निष्ठायां रूपम्। (चर्षणीधृतिः) मनुष्याणां धारकश्चासि। चर्षणय इति मनुष्यनाम। निघं० २।३। ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥

भावार्थः - यथा परमेश्वरो यशस्वी, ऋजुमार्गसेवी, बलवान्, पापादीनां हन्ता, स्वयं शुभकार्येषु प्रवर्त्तमानो मानवानां धारकश्चास्ति तथैव राजभिः प्रजाभिश्च भवितव्यम् ॥६॥

इस भाष्य को एडिट करें
Top