Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 251
ऋषिः - मेधातिथिर्मेध्यातिथिर्वा काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
7

उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢र꣣ स्तो꣢मा꣣स ईरते । स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥२५१॥

स्वर सहित पद पाठ

उ꣢द् । उ꣣ । त्ये꣢ । म꣡धु꣢꣯मत्तमाः । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯सः । ई꣣रते । सत्राजि꣡तः꣢ । स꣣त्रा । जि꣡तः꣢꣯ । ध꣣नसाः꣢ । ध꣣न । साः꣢ । अ꣡क्षि꣢꣯तोतयः । अ꣡क्षि꣢꣯त । ऊ꣣तयः । वाजय꣡न्तः꣢ । र꣡थाः꣢꣯ । इ꣣व ॥२५१॥


स्वर रहित मन्त्र

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥२५१॥


स्वर रहित पद पाठ

उद् । उ । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । सत्रा । जितः । धनसाः । धन । साः । अक्षितोतयः । अक्षित । ऊतयः । वाजयन्तः । रथाः । इव ॥२५१॥

सामवेद - मन्त्र संख्या : 251
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

पदार्थः -
(त्ये) ते (मधुमत्तमाः) अतिशयेन मधुराः, (सत्राजितः) सत्यजितः। सत्रा इति सत्यनाम। निघं० ३।१०। (धनसाः) धनं सद्गुणरूपं स्तोत्रे सनन्ति प्रयच्छन्ति प्रापयन्ति ये ते। षणु दाने धातोः ‘जनसनखनक्रमगमो विट्’ अ० ३।२।६७ इति विट्। ‘विड्वनोरनुनासिकस्यात्’ अ० ६।४।४१ इत्याकारान्तादेशः। (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा येषां ते, (वाजयन्तः) स्तोतुः वाजम् आत्मबलं जनयन्तः। वाज इति बलनाम। निघं० २।९। वाजं बलं कुर्वन्तीति वाजयन्ति, शतरि वाजयन्तः। (गिरः२) अर्चनसाधनीभूताः। गृणन्ति अर्चन्ति यैस्ते। गृणातिः अर्चतिकर्मा। निघं० ३।१४। (स्तोमासः) मदीयाः, स्तोमाः, मम स्तोत्राणि (रथाः इव) विमानयानानीव (उद्-ईरते उ) उद्गच्छन्ति खलु। ईर गतौ कम्पने च अदादिः। विशेषणानि रथपक्षेऽपि योजनीयानि। रथा अपि कीदृशाः ? (सत्राजितः) सीदन्ति ये ते सत्राः समवेताः शत्रवस्तान् जयन्ति एभिस्ते। षद्लृ धातोरौणादिके ‘त्र’ प्रत्यये सत्रशब्दः सिध्यति। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (धनसाः) धनं सन्वन्ति आहरन्ति यैस्ते, (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा यैस्ते अक्षीणरक्षाः, (वाजयन्तः) अन्नादिकं देशान्तरं प्रापयितुं चेष्टमानाः। वाज इत्यन्ननाम। निघं० २।७। (मधुमत्तमाः) अतिशयमधुरगतयः ॥९॥ अत्र श्लिष्टोपमालङ्कारः ॥९॥

भावार्थः - जगदीश्वरस्य महिमानं गातुं मदीया रसना मधुरमधुरान् स्तोमान् उदीरयति, यथा विमानचालको मधुरगतीनि विमानयानान्यूर्ध्वं नयति ॥९॥

इस भाष्य को एडिट करें
Top