Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 259
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

इ꣢न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢ । शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥२५९॥

स्वर सहित पद पाठ

इ꣢न्द्र꣢꣯ । क्र꣡तु꣢꣯म् । नः꣣ । आ꣢ । भ꣣र । पिता꣢ । पु꣣त्रे꣡भ्यः꣢ । पु꣣त् । त्रे꣡भ्यः꣢꣯ । य꣡था꣢꣯ । शि꣡क्ष꣢꣯ । नः꣣ । अस्मि꣢न् । पु꣣रुहूत । पुरु । हूत । या꣡म꣢꣯नि । जी꣣वाः꣢ । ज्यो꣡तिः꣢꣯ । अ꣣शीमहि ॥२५९॥


स्वर रहित मन्त्र

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥२५९॥


स्वर रहित पद पाठ

इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । पुत् । त्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । पुरु । हूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥२५९॥

सामवेद - मन्त्र संख्या : 259
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

पदार्थः -
हे (इन्द्र) परमैश्वर्यप्रद जगदीश्वर आचार्य राजन् वा ! (नः) अस्मभ्यम् (क्रतुम्) विज्ञानं च कर्म च। क्रतुरिति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (आभर) आहर, (यथा) येन प्रकारेण (पिता) जनकः (पुत्रेभ्यः) पुत्रपुत्रीभ्यः। पुत्राश्च पुत्र्यश्च इत्येकशेषः। प्रज्ञां च कर्म च आहरति। हे (पुरुहूत) बहुस्तुत ! त्वम् (अस्मिन्) पुरो विद्यमाने (यामनि२) जीवनमार्गे जीवनयज्ञे वा योगमार्गे वा। यान्ति अस्मिन्निति यामा मार्गः ‘अर्तिस्तुसु० उ० १।१४०’ इति मन् प्रत्ययः। (नः) अस्मभ्यम् अस्मान् वा। संहितायां ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। (शिक्ष) तादृशं सामर्थ्यं प्रयच्छ शिक्षय वा। शिक्षतिः दानकर्मा। निघं० ३।२०। यद्वा शिक्ष विद्योपादाने, लुप्तणिच्कं रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। येन (जीवाः) जीविता जागरूकाश्च सन्तो वयम् (ज्योतिः३) आशारूपं कर्तव्याकर्त्तव्यदर्शनरूपम् आत्मरूपं वा ज्योतिः, ब्रह्मणो दिव्यं प्रकाशं वा (अशीमहि) प्राप्नुयाम। अशूङ् व्याप्तौ स्वादिः, लिङ् ॥७॥४ अत्र श्लेष उपमालङ्कारश्च ॥७॥

भावार्थः - यथा पिता सन्तानेभ्यो विद्यां कर्मकरणं मार्गे चलनं धावनं च शिक्षयति येनात्मनिर्भरा भूत्वा ते जीवने साफल्यं प्राप्नुवन्ति, तथैव परमात्माऽऽचार्यो नृपतिश्चाऽस्मभ्यं प्रभूतं विज्ञानं, महान्तं कर्मयोगम्, अतुलं सामर्थ्यं, वरिष्ठां शिक्षां च प्रयच्छेत्, येन वयं जीवनान्निराशान्धकारमपसार्य जीविता जागरिताश्च सन्त उत्तरोत्तरं ज्योतिः पश्यन्तश्चरमं पारमेश्वरं दिव्यं ज्योतिरधिगच्छेम ॥७॥५

इस भाष्य को एडिट करें
Top