Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 26
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
6

नि꣡ त्वा꣢ नक्ष्य विश्पते द्यु꣣म꣡न्तं꣢ धीमहे व꣣य꣢म् । सु꣣वी꣡र꣢मग्न आहुत ॥२६॥

स्वर सहित पद पाठ

नि꣢ । त्वा꣣ । नक्ष्य । विश्पते । द्युम꣡न्त꣢म् । धी꣣महे । वय꣢म् सु꣣वी꣡र꣢म् । सु꣣ । वी꣡र꣢꣯म् । अ꣣ग्ने । आहुत । आ । हुत ॥२६॥


स्वर रहित मन्त्र

नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम् । सुवीरमग्न आहुत ॥२६॥


स्वर रहित पद पाठ

नि । त्वा । नक्ष्य । विश्पते । द्युमन्तम् । धीमहे । वयम् सुवीरम् । सु । वीरम् । अग्ने । आहुत । आ । हुत ॥२६॥

सामवेद - मन्त्र संख्या : 26
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

पदार्थः -
हे (नक्ष्य२) उपगन्तव्य शरण्य। नक्षितुमुपगन्तुमर्हो नक्ष्यः। नक्षतिः गतिकर्मा निघं० २।१४। (विश्पते) प्रजापालक, (आहुत३) बहुजनसत्कृत (अग्ने) सर्वाग्रणीः ज्ञानस्वरूप परमात्मन् ! (वयम्) उपासकाः (द्युमन्तम्) दीप्तिमन्तम् (सुवीरम्) शोभनाः श्रेष्ठाः वीराः वीरतादिगुणाः यस्मात्स सुवीरः तम्। बहुव्रीहौ वीरवीर्यौ च ६।२।१२० इति सोः परो वीरशब्द आद्युदात्तः। (त्वा) त्वाम् (निधीमहे) निधिवत् स्वान्तःकरणे निदध्महे, नितरां ध्यायामो वा। निपूर्वात् धा धातोर्ध्यैधातोर्वा लटि छान्दसं रूपम् ॥६॥४

भावार्थः - शरणागतवत्सलः, प्रजापालको, बहुजनवन्दितो, वीरत्वप्रदाता, तेजोनिधिः परमेश्वरः सर्वैः स्वहृदि धारणीयो ध्यातव्यश्च ॥६॥

इस भाष्य को एडिट करें
Top