Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 261
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
6
व꣣यं꣡ घ꣢ त्वा सु꣣ता꣡व꣢न्त꣣ आ꣢पो꣣ न꣢ वृ꣣क्त꣡ब꣢र्हिषः । प꣣वि꣡त्र꣢स्य प्र꣣स्र꣡व꣢णेषु वृत्रह꣣न्प꣡रि꣢ स्तो꣣ता꣡र꣢ आसते ॥२६१॥
स्वर सहित पद पाठव꣣य꣢म् । घ꣣ । त्वा । सुता꣡व꣢न्तः । आ꣡पः꣢꣯ । न । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । पवि꣡त्र꣢स्य । प्र꣣स्र꣡व꣢णेषु । प्र꣣ । स्र꣡व꣢꣯णेषु । वृ꣣त्रहन् । वृत्र । हन् । प꣡रि꣢꣯ । स्तो꣣ता꣡रः꣢ । आ꣣सते ॥२६१॥
स्वर रहित मन्त्र
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥२६१॥
स्वर रहित पद पाठ
वयम् । घ । त्वा । सुतावन्तः । आपः । न । वृक्तबर्हिषः । वृक्त । बर्हिषः । पवित्रस्य । प्रस्रवणेषु । प्र । स्रवणेषु । वृत्रहन् । वृत्र । हन् । परि । स्तोतारः । आसते ॥२६१॥
सामवेद - मन्त्र संख्या : 261
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment
विषयः - अथ कुतो वयं परमेश्वरस्योपासनां कुर्म इत्याह।
पदार्थः -
हे इन्द्र परमात्मन् ! (वृक्तबर्हिषः) वृक्तं परित्यक्तं बर्हिः अन्तरिक्षं याभिस्ताः। वृक्तमित्यत्र वृजी वर्जने धातोः क्तः प्रत्ययः। बर्हिरित्यन्तरिक्षनाम, निघं० १।३। (आपः न) मेघजलानि इव (वृक्तबर्हिषः) वृक्तानि परित्यक्तानि बर्हींषि सांसारिक्य एषणा यैस्तादृशाः, (सुतावन्तः) अभिषुतोपासनारसाः। षु प्रसवैश्वर्ययोः क्तप्रत्यये सुतः। सुतशब्दान्मतुपि रूपम्। पूर्वपदस्य दीर्घश्छान्दसः। (वयं घ) वयं हि (त्वा) त्वाम् स्तुमः इति शेषः। (वृत्रहन्) हे पापहन्तः परमेश्वर ! तव (स्तोतारः) स्तुतिकर्तारः उपासकाः (पवित्रस्य) शुद्धस्य सात्त्विकानन्दस्य (प्रस्रवणेषु) प्रवाहेषु (परि आसते) परिप्लवन्ते। परित्यक्तान्तरिक्षा आपो यथा नदीनिर्झरादिषु प्रवहन्तीत्यपि सूच्यते ॥९॥ अत्र श्लिष्टोपमालङ्कारः। किञ्च, कारणरूपमुत्तरार्द्धवाक्यं कार्यरूपं पूर्वार्द्धवाक्यं समर्थयतीति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः ॥९॥
भावार्थः - यथा मेघजलान्याकाशं विहाय भूमिमागत्य सस्यवनस्पत्यादिकं प्रसुवन्ति, तथैव वयं पुत्रैषणावित्तैषणालोकैषणादीनि विहाय परमात्मानमुपगम्यानन्दरसं प्रसुयाम ॥९॥
टिप्पणीः -
१. ऋ० ८।३३।१, साम० ८६४, अथ० २०।५२।१, २०।५७।१४, सर्वत्र मेध्यातिथिः ऋषिः।