Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 270
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
6
त꣡वेदि꣢꣯न्द्राव꣣मं꣢꣫ वसु꣣ त्वं꣡ पु꣢ष्यसि मध्य꣣म꣢म् । स꣣त्रा꣢ विश्व꣢꣯स्य पर꣣म꣡स्य꣢ राजसि꣣ न꣡ कि꣢ष्ट्वा꣣ गो꣡षु꣢ वृण्वते ॥२७०॥
स्वर सहित पद पाठत꣡व꣢꣯ । इत् । इ꣣न्द्र । अवम꣢म् । व꣡सु꣢ । त्वम् । पु꣣ष्यसि । मध्यम꣢म् । स꣣त्रा꣢ । वि꣡श्व꣢꣯स्य । प꣣रम꣡स्य꣢ । रा꣣जसि । न꣢ । किः꣢ । त्वा । गो꣡षु꣢꣯ । वृ꣣ण्वते ॥२७०॥
स्वर रहित मन्त्र
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥२७०॥
स्वर रहित पद पाठ
तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् । सत्रा । विश्वस्य । परमस्य । राजसि । न । किः । त्वा । गोषु । वृण्वते ॥२७०॥
सामवेद - मन्त्र संख्या : 270
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
विषयः - अथ जगति विद्यमानं सर्वं धनं परमात्मन एवेत्याह।
पदार्थः -
हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर ! (अवमम्) अवरं पृथिवीस्थं शरीरस्थं वा (वसु) धनम् (तव इत्) तवैव अस्ति। (त्वम्) त्वमेव (मध्यमम्) मध्यलोकेऽन्तरिक्षे मनोलोके वा विद्यमानम् धनम् (पुष्यसि) परि पुष्णासि। (सत्रा२) सत्यमेव सर्वदा वा, त्वम् (विश्वस्य) सर्वस्य (परमस्य) परमे द्युलोके आत्मलोके वा विद्यमानस्य धनस्यापि (राजसि) राजा वर्तसे।३(त्वा) त्वाम् (गोषु) पृथिव्यादिलोकेषु, यद्वा गवाद्यैश्वर्याणां दानेषु, (न किः) नैव केचित् (वृण्वते) वारयितुं शक्नुवन्ति। वृञ् वरणे स्वादिः, अत्र वारणार्थः ॥८॥४
भावार्थः - अवमे पृथिवीलोके यद् रजत-हिरण्य-मणि-मुक्ता-हीरक-कन्द-फल- रस-धेनु-तुरग-सन्तानादिकं वसु विद्यते, मध्यमेऽन्तरिक्षलोके यद् विद्युन्मेघग्रहचन्द्रादिकम् ऐश्वर्यं वर्तते, परमे द्युलोके च यत् सूर्यरश्मितारामण्डलादिकं वित्तं वर्वर्ति, तस्य सर्वस्य परमेश्वर एव राजाऽस्ति। तथैवास्माकमध्यात्मजगति स्थूलशरीरस्य त्वगस्थिमज्जावीर्यज्ञानेन्द्रियकर्मेन्द्रियादिरूपं यद् वसु विद्यते, मध्यमस्य मनोलोकस्य यन्मनोबुद्धिचित्ताहंकाररूपं तत्तत्संकल्पबलादिरूपं च यद् वसु वर्तते, परमलोकस्य आत्मनश्च यद् ज्ञानादिकमैश्वर्यं विद्यते तस्यापि परमेश्वर एव शासकः पोषकश्चास्ति। तस्य परमेश्वरस्य पृथिव्यादिलोकेषु कुत्रापि गतिर्न विहन्यते। स स्वकीयादैश्वर्यात् यत्किञ्चिदपि गवादिकं यस्मै कस्मैचिद् दातुमिच्छति तस्मै तस्य दानमपि न कश्चिद् वारयितुं शक्नोति ॥८॥
टिप्पणीः -
१. ऋ० ७।३२।१६। २. सत्रा सर्वदा—इति वि०। सत्यमेव—इति भ०, सा०। ३. अवमं त्रपुसीसादिकं वसु। मध्यमं रजतहिरण्यादिकं वसु। परमस्य श्रेष्ठस्य रत्नादिकवसुनः।.... यद्वा अवमं वसु पार्थिवम्, मध्यममान्तरिक्ष्यम्, परमं दिव्यम्—इति भ०, तदेव सायणस्याभिमतम्। ४. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये राजविषये व्याख्यातवान्।