Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 276
ऋषिः - जमदग्निर्भार्गवः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

ब꣢ण्म꣣हा꣡ꣳ अ꣢सि सू꣣र्य ब꣡डा꣢दित्य म꣣हा꣡ꣳ अ꣢सि । म꣣ह꣡स्ते꣢ स꣣तो꣡ म꣢हि꣣मा꣡ प꣢निष्टम म꣣ह्ना꣡ दे꣢व म꣣हा꣡ꣳ अ꣢सि ॥२७६॥

स्वर सहित पद पाठ

ब꣢ट् । म꣣हा꣢न् । अ꣢सि । सूर्य । ब꣢ट् । आ꣣दित्य । आ । दित्य । महा꣢न् । अ꣣सि । महः꣢ । ते꣣ । सतः꣢ । म꣢हिमा꣢ । प꣣निष्टम । मह्ना꣢ । दे꣣व । महा꣢न् । अ꣣सि ॥२७६॥


स्वर रहित मन्त्र

बण्महाꣳ असि सूर्य बडादित्य महाꣳ असि । महस्ते सतो महिमा पनिष्टम मह्ना देव महाꣳ असि ॥२७६॥


स्वर रहित पद पाठ

बट् । महान् । असि । सूर्य । बट् । आदित्य । आ । दित्य । महान् । असि । महः । ते । सतः । महिमा । पनिष्टम । मह्ना । देव । महान् । असि ॥२७६॥

सामवेद - मन्त्र संख्या : 276
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। (बट्) सत्यम्। बट् इति सत्यनाम। निघं० ३।१०। हे (सूर्य२) यः सरति व्याप्नोति जानाति वा, सुवति उत्पादयति वा सर्वं जगत्, यद्वा सुष्ठु ईरयति कम्पयति दुष्टजनान् स सूर्यः तादृश, यद् वा सूर्य इव प्रकाशमान सर्वप्रकाशक जगदीश्वर ! सूर्यः सर्त्तेर्वा सुवतेर्वा स्वीर्यतेर्वा। निरु० १२।१४। त्वम् (महान्) सकल-ब्रह्माण्डव्यापित्वाद् सुमहान् (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य३) अदितेः पुत्र ! अविनाशिस्वरूप परमात्मन् ! दितिर्विनष्टिः, दो अवखण्डने, अदितिः अविनष्टिः, तस्याः पुत्रः, अतिशयेन अविनश्वरः इत्यर्थः। त्वम् (महान्) परममहिमोपेतः (असि) वर्तसे। हे (पनिष्टम४) अतिशयस्तुतिपात्र परब्रह्म परमेश्वर ! पन्यते स्तूयते इति पनिः, पण व्यवहारे स्तुतौ च बाहुलकादौणादिक इसिन् प्रत्ययः, अतिशयेन पनिः पनिष्टमः। (महः) महतः (सतः) सत्यस्वरूपस्य (ते) तव (महिमा) महत्त्वगुणः (महान्) अपारः अस्ति। हे (देव) दानादिगुणयुक्त ! (मह्ना) महिम्ना, त्वम् (महान्) सर्वातिशायी (असि) विद्यसे ॥५ अथ द्वितीयः—नृपतिपरः। (बट्) सत्यम्, हे (सूर्य) स्वराष्ट्रे सूर्यवद् विद्याप्रकाशप्रसारक राजन् ! त्वम् (महान्) दिग्विजेता (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य) अदितिः पृथिवी राष्ट्रभूमिः, तस्याः पुत्र ! राष्ट्रवासिभिर्मतप्रदानद्वारा राष्ट्रभूमेर्गर्भादेव निर्वाचितत्वात् तस्य राष्ट्रभूमेः पुत्रत्वम्। त्वम् (महान्) प्रजापालनरूपमहाकर्मवान् (असि) वर्तसे। हे (पनिष्टम) अतिशयव्यवहारवित् ! (महः सतः) प्रजायाः पूज्यस्य सतः। मह पूजायाम् धातोः क्विबन्तस्य मह् शब्दस्य षष्ठ्येकवचने रूपम्। (ते) तव (महिमा) गरिमा (महान्) अभ्यधिकः अस्ति, सकलदेवानां गुणांशभूतत्वात्। यथाह मनुः—इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च। चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ (मनु० ७।४) इत्यादि। हे (देव) प्रजानां सुखदातः ! त्वम् (मह्ना) गुणगौरवेण (महान्) मंहनीयकीर्तिः (असि) भवसि ॥ अथ तृतीयः—आचार्यपरः। (बट्) सत्यम्, हे (सूर्य) प्रकाशमयः सूर्यः इव विद्याप्रकाशपूर्ण आचार्यप्रवर ! त्वम् (महान्) महापाण्डित्ययुक्तः (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य) आदित्यब्रह्मचारिन् ! त्वम् (महान्) महाव्रतः (असि) वर्तसे। हे (पनिष्टम) अतिशयेन विद्याव्यवहारज्ञातः ! (महः सतः) शिष्याणां पूज्यस्य (ते) तव (महिमा) माहात्म्यम् (महान्) अपारः अस्ति। हे (देव) दिव्यगुण आचार्यप्रवर ! त्वम् (मह्ना) विद्याशिक्षणकलादिमहिम्ना (महान्) गौरवोपेतः (असि) विद्यसे ॥४॥६ अत्र श्लेषालङ्कारः ॥४॥

भावार्थः - ब्रह्माण्डे परमेश्वरः, राष्ट्रे राजा, गुरुकुले च गुरुः त्रयोऽपि महान्तः परोपकारिणः कीर्तिमन्तश्च सन्ति। तेभ्यो यथायोग्यमुपकारः सर्वैर्ग्राह्यः ॥४॥

इस भाष्य को एडिट करें
Top