Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 284
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
6

मो꣡ षु त्वा꣢꣯ वा꣣घ꣡त꣢श्च꣣ ना꣢꣫रे अ꣣स्म꣡न्नि री꣢꣯रमन् । आ꣣रा꣡त्ता꣣द्वा सध꣣मा꣡दं꣢ न꣣ आ꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡न्नुप꣢꣯ श्रुधि ॥२८४॥

स्वर सहित पद पाठ

मा꣢ । उ꣣ । सु꣢ । त्वा꣣ । वाघ꣡तः꣢ । च꣣ । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢त् । नि । री꣣रमन् । आरा꣡त्ता꣢त् । वा꣣ । सधमा꣡द꣢म् । स꣣ध । मा꣡द꣢꣯म् । नः꣣ । आ꣢ । ग꣣हि । इह꣢ । वा꣣ । स꣢न् । उ꣡प꣢꣯ । श्रु꣣धि ॥२८४॥


स्वर रहित मन्त्र

मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥२८४॥


स्वर रहित पद पाठ

मा । उ । सु । त्वा । वाघतः । च । न । आरे । अस्मत् । नि । रीरमन् । आरात्तात् । वा । सधमादम् । सध । मादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥२८४॥

सामवेद - मन्त्र संख्या : 284
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। हे इन्द्र परमात्मन् ! (वाघतः) अस्माकं शरीरयज्ञस्य ऋत्विजः इन्द्रियमनोबुद्ध्यादयः। वाघतः इति ऋत्विङ्नाम। निघं० ३।१८। (च न२) हि (त्वा) त्वाम् (अस्मत्) अस्मत्तः (आरे) दूरम् (मा उ३ सु) नैव खलु (निरीरमन्४) नितरां रमयन्तु। नि पूर्वाद् रमु क्रीडायाम् धातोर्णिजन्ताल्लुङि छान्दसः अडभावः। इन्द्रियादिभिर्विषयेष्वाकृष्टोऽहं त्वां स्वसकाशाद् दूरं न कुर्यामित्यर्थः। त्वम् (आरात्तात् वा) सुदूरादपि (नः) अस्माकम् (सधमादम्) जीवनयज्ञम् उपासनायज्ञं वा। सह माद्यन्ति हृष्यन्ति जना अत्रेति सधमादो यज्ञः। ‘सधमादस्थयोश्छन्दसि अ० ६।३।९६’ इति सहस्य सधादेशः। (आगहि) आगच्छ। (इह वा सन्) अत्रैवास्माकं हृदये च सन्। वा इति समुच्चयार्थः निरुक्ते प्रोक्तः। निरु० १।५। (उप श्रुधि) अस्माकं स्तुतिं प्रार्थनां च उपशृणु ॥ अत द्वितीयः—नृपतिपरः। हे इन्द्र राजन् ! (वाघतः) मेधाविनो राज्याधिकारिणो राजमन्त्रिनगराधीशप्रभृतयः। वाघतः इति मेधाविनाम। निघं० ३।१५। (चन) नूनम् (त्वा) त्वाम् (अस्मत्) अस्माकं सकाशात् (आरे) दूरे (मा उ सु) नैव (निरीरमन्) नियच्छन्तु, राजानं त्वामस्मभ्यं सुलभं कुर्वन्त्विति भावः। हे राजन् ! (आरात्ताद् वा) सुदूरस्थादपि राजनगरात् त्वम् (नः) अस्माकम् (सधमादम्) यज्ञसमारोहम् (आगहि) आगच्छ। (इह वा सन्) अत्रैवास्माकं मध्ये विराजमानस्त्वम् (उपश्रुधि) अस्माकं सुखदुःखादिनिवेदनं शृणु ॥२॥५ अत्र श्लेषालङ्कारः। रेफस्यासकृदावृत्तौ च वृत्त्यनुप्रासः ॥२॥

भावार्थः - राजराजेश्वरः परमात्मा मानवो नृपतिश्चास्माकं प्रजाजनानां सदा सुलभः सन्नस्माकं सुखदुःखे विजानीयात् ॥२॥

इस भाष्य को एडिट करें
Top