Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 294
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣣म꣡ इ꣡न्द्र꣣ म꣡दा꣢य ते꣣ सो꣡मा꣢श्चिकित्र उ꣣क्थि꣢नः꣣ । म꣡धोः꣢ पपा꣣न꣡ उप꣢꣯ नो꣣ गि꣡रः꣢ शृणु꣣ रा꣡स्व꣢ स्तो꣣त्रा꣡य꣢ गिर्वणः ॥२९४
स्वर सहित पद पाठइ꣣मे꣢ । इ꣣न्द्र । म꣡दा꣢꣯य । ते꣣ । सो꣡माः꣢꣯ । चि꣣कित्रे । उक्थि꣡नः꣢ । म꣡धोः꣢꣯ । प꣣पानः꣢ । उ꣡प꣢꣯ । नः꣣ । गि꣡रः꣢꣯ । शृ꣣णु । रा꣡स्व꣢꣯ । स्तो꣣त्रा꣡य꣢ । गि꣣र्वणः । गिः । वनः ॥२९४॥
स्वर रहित मन्त्र
इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः । मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ॥२९४
स्वर रहित पद पाठ
इमे । इन्द्र । मदाय । ते । सोमाः । चिकित्रे । उक्थिनः । मधोः । पपानः । उप । नः । गिरः । शृणु । रास्व । स्तोत्राय । गिर्वणः । गिः । वनः ॥२९४॥
सामवेद - मन्त्र संख्या : 294
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
विषयः - अथेन्द्रं प्रार्थयते।
पदार्थः -
(इमे) एते परिदृश्यमानाः (उक्थिनः) उक्थवन्तः स्तोत्रयुक्ताः (सोमाः) अस्माकं श्रद्धारसाः, हे (इन्द्र) परमेश्वर ! (ते) तव (मदाय) तृप्त्यर्थम् (चिकित्रे) चिकितिरे, सर्वैः ज्ञायन्ते, सर्वविदिताः सन्तीत्यर्थः। कित ज्ञाने, लिटि ‘इरयो रे। अ० ६।४।७६’ अनेन इरे इत्यस्य रेभावः। (मधोः) मधुरस्य श्रद्धारसस्य (पपानः) पानं कुर्वन्। पा पाने धातोः, लिटः कानच्। (नः) अस्माकम् (गिरः) प्रार्थनावाचः (उप शृणु) सामीप्येन आकर्णय। हे (गिर्वणः१) गीर्भिः सेवनीय याचनीय वा देव ! वन संभक्तौ, (वनु) याचने। गिर्वणा देवो भवति, गीर्भिरेनं वनयन्ति। निरु० ६।१५। त्वम् (स्तोत्राय२) स्तुतिकर्त्रे मह्यम्। अत्र ष्टुञ् स्तुतौ धातोः ‘दाम्नीशसयुयुजस्तु०। अ० ३।३।१८२’ इति करणे विहितः ष्ट्रन् प्रत्ययः कर्तरि ज्ञातव्यः। (रास्व) अभिलषितं फलं प्रदेहि। रा दाने, आत्मनेपदं छान्दसम् ॥ अतिथिपक्षेऽपि योज्यम्। तत्र उक्थिनः प्रशंसिताः सोमाः सोमाद्योषधीनां रसाः, तैः सत्कृतः स गृहस्थानां प्रार्थनां श्रुत्वाऽभीष्टमुपदेशादिकं प्रयच्छेदिति दिक् ॥२॥
भावार्थः - परमेश्वरोऽतिथिश्चाऽस्माकं प्रार्थनामुपश्रुत्याभीष्टं फलं नः प्रयच्छेताम् ॥२॥
टिप्पणीः -
१. द्रष्टव्यम्—१६५ संख्यकमन्त्रस्य भाष्यम्। २. स्तोत्राय स्तोत्रे—इति वि०, भ०। स्तोत्राय स्तोत्रकर्त्रे मह्यम्—इति सा०।