Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 394
ऋषिः - पर्वतः काण्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
6
य꣡ इ꣢न्द्र सोम꣣पा꣡त꣢मो꣣ म꣡दः꣢ शविष्ठ꣣ चे꣡त꣢ति । ये꣢ना꣣ ह꣢ꣳसि न्या꣢꣯३꣱त्रिणं त꣡मी꣢महे ॥३९४॥
स्वर सहित पद पाठयः꣢ । इ꣣न्द्र । सोमपा꣡त꣢मः । सो꣣म । पा꣡त꣢꣯मः । म꣡दः꣢꣯ । श꣣विष्ठ । चे꣡त꣢꣯ति । ये꣡न꣢꣯ । हँ꣡सि꣢꣯ । नि । अ꣣त्रि꣡ण꣢म् । तम् । ई꣣महे ॥३९४॥
स्वर रहित मन्त्र
य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येना हꣳसि न्या३त्रिणं तमीमहे ॥३९४॥
स्वर रहित पद पाठ
यः । इन्द्र । सोमपातमः । सोम । पातमः । मदः । शविष्ठ । चेतति । येन । हँसि । नि । अत्रिणम् । तम् । ईमहे ॥३९४॥
सामवेद - मन्त्र संख्या : 394
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
विषयः - अथेन्द्रनाम्ना परमात्मानं जीवात्मानं सेनाध्यक्षं च सम्बोधयति।
पदार्थः -
हे (शविष्ठ) बलिष्ठ, (इन्द्र) शत्रुविदारक परमात्मन्, जीवात्मन्, सेनाध्यक्ष वा ! (यः) यस्त्वम् (सोमपातमः) अतिशयेन वीररसरूपस्य सोमस्य पाता असि, तस्य ते (मदः) वीरताजनितः हर्षः (चेतति) सदैव जागर्ति। (येन) पराक्रमेण, त्वम्। संहितायां ‘येना’ इति दीर्घश्छान्दसः, ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति वचनात्। (अत्रिणम्) भक्षकं शत्रुम्। अत्तीति अत्री। अद भक्षणे धातोः ‘अदेस्त्रिनिश्च। उ० ४।६९’ इति त्रिनिः प्रत्ययः। अत्रिणो वै रक्षांसि। पाप्मानोऽत्रिणः। ष० ब्रा० ३।१। (निहंसि) निःशेषेण विनाशयसि, (तम्) तं ते पराक्रमम्, वयमपि (ईमहे) प्रार्थयामहे। ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९ ॥४॥ अत्र अर्थश्लेषालङ्कारः ॥४॥
भावार्थः - यथा वीरः परमात्मा जीवात्मा च वीररसेन हृष्टः सन् सर्वान् कामक्रोधादिरूपान्, विघ्नरूपान्, पापरूपांश्च भक्षकान् राक्षसान् विनाशयति, तथैव राष्ट्रे वीरः सेनापतिः सर्वानाक्रान्तॄन् रिपून् स्वपराक्रमेण दण्डयेत्। तादृशो वीररसः पराक्रमश्च सर्वैः प्रजाजनैरपि प्राप्तव्यः ॥४॥
टिप्पणीः -
१. ऋ० ८।१२।१, अथ० २०।६३।७।