Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 405
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
4
त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे । आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥४०५॥
स्वर सहित पद पाठत्व꣢म् । नः꣣ । इन्द्र । आ꣢ । भ꣣र । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म् । श꣣तक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ꣢ । वी꣣र꣢म् । पृ꣣तनास꣡ह꣢म् । पृ꣣तना । स꣡ह꣢꣯म् ॥४०५॥
स्वर रहित मन्त्र
त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥४०५॥
स्वर रहित पद पाठ
त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ । वीरम् । पृतनासहम् । पृतना । सहम् ॥४०५॥
सामवेद - मन्त्र संख्या : 405
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
विषयः - अथेन्द्रनाम्ना परमात्मानं राजानं च प्रार्थयते।
पदार्थः -
हे (शतक्रतो) बहुप्रज्ञ बहुकर्मन् वा (विचर्षणे) विशेषेण द्रष्टः, विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११। (इन्द्र) वीर परमैश्वर्यशालिन् जगदीश्वर राजन् वा ! (त्वम् नः) अस्मभ्यम् (ओजः) ब्रह्मवर्चसम् (नृम्णम्) धनं च। नृम्णमिति धननाम। निघं० २।१०। (आभर) आहर, किञ्च (पृतनासहम्) पृतनाः शत्रुसेनाः सहते पराजयते यस्तम् (वीरम्) विक्रमशालिनं योद्धारम् (आभर) आहर ॥७॥ अत्र अर्थश्लेषालङ्कारः ॥७॥
भावार्थः - परमात्मकृपया राज्ञः प्रयत्नेन चास्माकं राष्ट्रे ब्रह्मवर्चस्विनो ब्राह्मणाः, शूराः क्षत्रियाः, धनवन्तो वैश्याश्चोत्पद्येरन्। किञ्च सर्वे प्रजाजना अपि बलवन्तो, धनवन्तः, वीरपुत्रवन्तश्च भवेयुः ॥७॥
टिप्पणीः -
१. ऋ० ८।९८।१०, अथ० २०।१०८।१। उभयत्र ‘भर, पृतनासहम्’ एतयोः स्थाने क्रमेण ‘भरँ, पृतनाषहम्’ इति पाठः। साम० ११६९।