Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 419
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
आ꣡ ते꣢ अग्न इधीमहि द्यु꣣म꣡न्तं꣢ देवा꣣ज꣡र꣢म् । यु꣢द्ध꣣ स्या꣢ ते꣣ प꣡नी꣢यसी स꣣मि꣢द्दी꣣द꣡य꣢ति꣣ द्य꣡वी꣢꣯षꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४१९॥
स्वर सहित पद पाठआ꣢ । ते꣣ । अग्ने । इधीमहि । द्युम꣡न्त꣢म् । दे꣣व । अज꣡र꣢म् । अ । ꣣ज꣡र꣢꣯म् । यत् । ह꣣ । स्या꣢ । ते꣣ । प꣡नी꣢꣯यसी । स꣣मि꣢त् । स꣣म् । इ꣢त् । दी꣣द꣡य꣢ति । द्य꣡वि꣢꣯ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥४१९॥
स्वर रहित मन्त्र
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषꣳ स्तोतृभ्य आ भर ॥४१९॥
स्वर रहित पद पाठ
आ । ते । अग्ने । इधीमहि । द्युमन्तम् । देव । अजरम् । अ । जरम् । यत् । ह । स्या । ते । पनीयसी । समित् । सम् । इत् । दीदयति । द्यवि । इषम् । स्तोतृभ्यः । आ । भर ॥४१९॥
सामवेद - मन्त्र संख्या : 419
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
विषयः - अथाद्ययोर्द्वयोः अग्निर्देवता। अग्नेः परमेश्वरस्य दिव्यं प्रकाशं प्रार्थयते।
पदार्थः -
हे (देव) सर्वप्रकाशक (अग्ने) अन्तर्यामिन् जगदीश्वर ! वयम् (ते) तव (द्युमन्तम्) दीप्तिमन्तम् (अजरम्) जरावर्जितम् प्रकाशम् (आ इधीमहि) हृदये प्रदीपयेम। ञिइन्धी दीप्तौ धातोर्लिङि छान्दसं रूपम्। (यत्) या। अत्र ‘सुपां सुलुक्०’ इति सोर्लुक्। (ते) तव (स्या) सा प्रसिद्धा (पनीयसी) स्तुत्यतरा। पण व्यवहारे स्तुतौ च। पन्यते स्तूयते इति पना, ततोऽतिशायने ईयसुन् प्रत्ययः। (समित्) दीप्तिः (द्यवि) सूर्ये (दीदयति) प्रकाशते। दीदयतिः ज्वलतिकर्मा। निघं० १।१६। ताम् (इषम्) व्याप्तां दीप्तिम्। इष्यति व्याप्नोतीति इट्, ताम्। इष्यतेर्गत्यर्थात् क्विपि रूपम्। (स्तोतृभ्यः) स्तोत्रमुपहरद्भ्यः अस्मभ्यम् अपि (आ भर) आ हर ॥१॥२
भावार्थः - यत्किमपि प्रकाशमानं वह्निविद्युच्चन्द्रसूर्यतारादिकं भुवि दिवि च विद्यते तत्सर्वं परमात्मनः प्रकाशेनैव प्रकाशते। तेन प्रकाशेन सर्वैर्जनैः स्वात्मापि प्रकाशनीयः ॥१॥
टिप्पणीः -
१. ऋ० ५।६।४। अथ० १८।४।८८ ऋषिः अथर्वा, ‘आ ते अग्न’, ‘यद्ध स्या’, ‘द्यवीषं’ इत्यत्र क्रमेण ‘आ त्वाग्न’, ‘यद् ध सा’, ‘द्यवि। इषं’ इति पाठः। साम० १०२२। २. ऋग्भाष्ये दयानन्दर्षिणायं मन्त्रोऽग्निविद्याविदो विदुषो विषये व्याख्यातः।