Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 421
ऋषिः - सत्यश्रवा आत्रेयः देवता - उषाः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

म꣣हे꣡ नो꣢ अ꣣द्य꣡ बो꣢ध꣣यो꣡षो꣢ रा꣣ये꣢ दि꣣वि꣡त्म꣢ती । य꣡था꣢ चिन्नो꣣ अ꣡बो꣢धयः स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥४२१॥

स्वर सहित पद पाठ

म꣣हे꣢ । नः꣣ । अद्य꣢ । अ꣣ । द्य꣢ । बो꣣धय । उ꣡षः꣢꣯ । रा꣣ये꣢ । दि꣣वि꣡त्म꣢ती । य꣡था꣢꣯ । चि꣣त् । नः । अ꣡बो꣢꣯धयः । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सूनृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥४२१॥


स्वर रहित मन्त्र

महे नो अद्य बोधयोषो राये दिवित्मती । यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥४२१॥


स्वर रहित पद पाठ

महे । नः । अद्य । अ । द्य । बोधय । उषः । राये । दिवित्मती । यथा । चित् । नः । अबोधयः । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते ॥४२१॥

सामवेद - मन्त्र संख्या : 421
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

पदार्थः -
हे (उषः) प्रभातदीप्तिरिव ममात्मलोके समुदीयमाने अध्यात्मप्रभे ! (दिवित्मती२) विवेकख्यातिप्रदीपकगुणैर्युक्ता त्वम्। दिव् पूर्वात् इन्धी दीप्तौ धातोः क्विपि सम्पन्नात् ‘दिवित्’ प्रातिपदिकात् मतुपि स्त्रियां रूपम्। (नः) अस्मान् (अद्य) अस्मिन् दिने (महे राये) योगसिद्धिरूपाय महते ऐश्वर्याय (बोधय) बोधं प्रयच्छ, (यथा) येन प्रकारेण, इतः पूर्वं त्वम्, हे (सुजाते) शोभनजन्मवति, (अश्वसूनृते३) अश्वा व्याप्तिमती सूनृता प्रिया दिव्या वाग् यस्याः तादृशि उषः ! (सत्यश्रवसि) सत्ययशसि। श्रवः श्रवणीयं यशः। निरु० ११।९। सत्यं श्रवो यस्यास्तादृशि। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (वाय्ये४) सन्ताननीये विस्तारणीये अस्माकं जीवने। वेञ् तन्तुसन्ताने धातोर्ण्यति रूपम्। (नः) अस्मान् (अबोधयः) बोधं प्रायच्छः ॥ सुजाते इत्यस्यामन्त्रितत्वेऽपि पादादित्वान्निघाताभावः। तस्य चाविद्यमानवत्त्वे पदात्परत्वाभावात् अश्वसूनृते इत्यपि न निहन्यते, किन्तु तत्र षाष्ठेनाद्युदात्तत्वमेव ॥३॥५

भावार्थः - यथा प्रभातदीप्तिरूपा उषाः सर्वान् शयनाज्जागरयति तथैवाध्यात्मिक्युषा अस्मान् जागरयेत् प्रबोधयेच्च ॥३॥

इस भाष्य को एडिट करें
Top