Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 426
ऋषिः - अंहोमुग्वामदेव्यः देवता - विश्वेदेवाः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

न꣢꣫ तमꣳहो꣣ न꣡ दु꣢रि꣣तं꣡ देवा꣢꣯सो अष्ट꣣ म꣡र्त्य꣢म् । स꣣जो꣡ष꣢सो꣣ य꣡म꣢र्य꣣मा꣢ मि꣣त्रो꣡ नय꣢꣯ति꣣ व꣡रु꣢णो꣣ अ꣢ति꣣ द्वि꣡षः꣢ ॥४२६॥

स्वर सहित पद पाठ

न꣢ । तम् । अँ꣡हः꣢꣯ । न । दु꣣रित꣢म् । दुः꣣ । इत꣢म् । दे꣡वा꣢꣯सः । अ꣣ष्ट । म꣡र्त्य꣢꣯म् । स꣣जो꣡ष꣢सः । स꣣ । जो꣡ष꣢꣯सः । यम् । अ꣡र्यमा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न꣡य꣢꣯ति । व꣡रु꣢꣯णः । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥४२६॥


स्वर रहित मन्त्र

न तमꣳहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥४२६॥


स्वर रहित पद पाठ

न । तम् । अँहः । न । दुरितम् । दुः । इतम् । देवासः । अष्ट । मर्त्यम् । सजोषसः । स । जोषसः । यम् । अर्यमा । मित्रः । मि । त्रः । नयति । वरुणः । अति । द्विषः ॥४२६॥

सामवेद - मन्त्र संख्या : 426
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

पदार्थः -
हे (देवासः) विद्वज्जनाः ! (तं मर्त्यम्) तं जनम् (न अंहः) अपराधः, (न दुरितम्) न पापम् (अष्ट) अश्नुते व्याप्नोति। आष्ट इति व्याप्तिकर्मसु पठितम्। निघं० २।१८ अशू व्याप्तौ संघाते च इति धातोः लडर्थे लुङि अनिट्पक्षे रूपम्, आडभावश्छान्दसः। (यम्) जनम् (सजोषसः) सप्रीतयः, परस्परं समञ्जसाः (अर्यमा) मनः, आदित्यः, न्यायाधीशो वा, (मित्रः) प्राणः वायुः, सुहृद् वा (वरुणः) आत्मा, चन्द्रः, राजा वा (द्विषः) विपत्तेः, विघ्नसमूहात्, शत्रुसंघाद् वा (अति नयति) अति नयन्ति, पारयन्ति। अत्र वचनव्यत्ययः, ऋग्वेदे तु ‘नयन्ति’ इत्येव पाठः ॥८॥

भावार्थः - शरीरे, जडात्मके जगति, समाजे, राष्ट्रे च क्रमशः ये मनःप्राणादयो, ये सूर्यादयो, ये सन्मित्रादयो, ये च नृपत्यमात्यादयः प्रधानभूताः सन्ति तेषां रक्षणं प्राप्य मनुष्याः पापानि शत्रूंश्च पराजेतुं शक्नुवन्ति ॥८॥ अत्रेन्द्रस्य तत्सम्बद्धानाम् अग्न्युषःसोममित्रवरुणार्यम्णां च गुणकर्मवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति बोध्यम् ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे चतुर्थी दशतिः ॥ इति चतुर्थेऽध्यायेऽष्टमः खण्डः ॥

इस भाष्य को एडिट करें
Top