Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 429
ऋषिः - ऋण0त्रसदस्यू
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
5
प꣡व꣢स्व सोम म꣣हा꣡न्त्स꣢मु꣣द्रः꣢ पि꣣ता꣢ दे꣣वा꣢नां꣣ वि꣢श्वा꣣भि꣡ धाम꣢꣯ ॥४२९॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । सो꣣म । महा꣢न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । पि꣣ता꣢ । दे꣣वा꣡ना꣢म् । वि꣡श्वा꣢꣯ । अ꣣भि꣢ । धा꣡म꣢꣯ ॥४२९॥
स्वर रहित मन्त्र
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥४२९॥
स्वर रहित पद पाठ
पवस्व । सोम । महान् । समुद्रः । सम् । उद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥४२९॥
सामवेद - मन्त्र संख्या : 429
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
विषयः - अथ सोमनाम्ना परमेश्वरो राजा च प्रार्थ्यते।
पदार्थः -
प्रथमः—परमात्मपरः। हे (सोम) सर्वजगदुत्पादक परमेश्वर ! त्वम् (महान्) महिमोपेतः असि, (समुद्रः) रसस्य पारावारोऽसि, (देवानाम्) प्रकाशकानां विदुषां, सूर्यचन्द्रविद्युदग्न्यादीनां, ज्ञानेन्द्रियमनोबुद्ध्यादीनां च (पिता) पालकः असि। त्वम् (विश्वा धाम) विश्वानि धामानि, सर्वाणि स्थानानि हृदयधामानि वा। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शसः शेर्लोपः। (अभि पवस्व) अभिव्याप्य पुनीहि। पूङ् पवने, भ्वादिः ॥ अथ द्वितीयः—राजपरः। हे (सोम) चन्द्रवदाह्लादक प्रजारञ्जक राजन् ! त्वम् (महान्) गुणैः कर्मभिश्च महत्त्वयुक्तोऽसि, (समुद्रः) प्रेमरसस्य, शौर्यस्य, सम्पदां च सागरोऽसि, (देवानाम्) दानादिगुणयुक्तानां प्रजाजनानाम् (पिता) पालकोऽसि। त्वम् (विश्वा धाम) राष्ट्रस्य सर्वान् विभागान् शिक्षान्यायकृषिव्यापारोद्योगसैन्यादीन् (अभि) अभिव्याप्य, तानि (पवस्व) निर्दोषाणि पवित्राणि च विधेहि ॥३॥ अत्र श्लेषालङ्कारः, सोमे समुद्रत्वारोपाद् रूपकं च ॥३॥
भावार्थः - यथा परमात्मा सर्वेषां हृदयानि पुनाति, तथा राजा राष्ट्रस्य सर्वान् विभागान् भ्रष्टाचाररहितान् पवित्रांश्च विदधातु ॥३॥
टिप्पणीः -
१. ऋ० ९।१०९।४, साम० १२४१।