Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 432
ऋषिः - ऋण0त्रसदस्यू देवता - पवमानः सोमः छन्दः - त्रिपदा अनुष्टुप्पिपीलिकामध्या स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣢नु꣣ हि꣡ त्वा꣢ सु꣣त꣡ꣳ सो꣢म꣣ म꣡दा꣢मसि म꣣हे꣡ स꣢मर्य꣣रा꣡ज्ये꣢ । वा꣡जा꣢ꣳ अ꣣भि꣡ प꣢वमान꣣ प्र꣡ गा꣢हसे ॥४३२॥

स्वर सहित पद पाठ

अ꣡नु꣢꣯ । हि । त्वा꣣ । सुत꣢म् । सो꣣म । म꣡दा꣢꣯मसि । म꣣हे꣢ । स꣣मर्यरा꣡ज्ये꣢ । स꣣मर्य । रा꣡ज्ये꣢꣯ । वा꣡जा꣢꣯न् । अ꣣भि꣢ । प꣣वमान । प्र꣢ । गा꣣हसे ॥४३२॥


स्वर रहित मन्त्र

अनु हि त्वा सुतꣳ सोम मदामसि महे समर्यराज्ये । वाजाꣳ अभि पवमान प्र गाहसे ॥४३२॥


स्वर रहित पद पाठ

अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यराज्ये । समर्य । राज्ये । वाजान् । अभि । पवमान । प्र । गाहसे ॥४३२॥

सामवेद - मन्त्र संख्या : 432
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

पदार्थः -
हे (सोम) परमात्मन् जीवात्मन् राजन् वा ! (सुतम्) अभिषिक्तम् (त्वा) त्वाम् (अनु) अनुगम्य (महे) महति (समर्यराज्ये) समर्याणां देवासुरसमरे कुशलानां देवभावानां क्षत्रिययोद्धॄणां वा राज्ये। समर प्रातिपदिकात् कुशलार्थे यत्। वयम् (मदामसि हि) निश्चयेन मदामः आनन्दमुपलभामहे। अत्र हि-योगान्निघाताभावः। हे (पवमान) पवित्रकर्तः देव ! त्वम् (वाजान् अभि) बलानि विज्ञानानि ऐश्वर्याणि वा अभिप्रापयितुम् (प्र गाहसे) अस्मान् प्रकर्षेण आलोडयसि, आलोड्य क्रियाशीलान् करोषीति भावः ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥

भावार्थः - परमात्मानं जीवात्मानं वीरं मनुष्यं वा राजपदेऽभिषिच्य संग्रामकुशलानां वीरभावानां वीरजनानां च राज्ये निवसन्तो वयं देवासुरसंग्रामे विजयमुत्कर्षं च प्राप्नुयाम ॥६॥

इस भाष्य को एडिट करें
Top