Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 456
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - एकपदा गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣢न्द्रो꣣ वि꣡श्व꣢स्य राजति ॥४५६॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । रा꣣जति ॥४५६॥
स्वर रहित मन्त्र
इन्द्रो विश्वस्य राजति ॥४५६॥
स्वर रहित पद पाठ
इन्द्रः । विश्वस्य । राजति ॥४५६॥
सामवेद - मन्त्र संख्या : 456
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
विषयः - अथेन्द्रस्य महत्त्वमाह।
पदार्थः -
(इन्द्रः) परब्रह्म परमेश्वरः (विश्वस्य) सकलस्य ब्रह्माण्डस्य, (इन्द्रः) अखण्डो जीवात्मा (विश्वस्य) सकलस्य शरीरस्य, (इन्द्रः) प्रजाभिर्निर्वाचितो राजा च (विश्वस्य) सकलस्य राष्ट्रस्य (राजति) सम्राड् भवति ॥१०॥ अत्र अर्थश्लेषालङ्कारः ॥१०॥
भावार्थः - परमात्मानं जीवात्मानं नृपतिं च स्वस्वक्षेत्रस्य सम्राजं मत्वा यथायोग्यं लाभास्तेभ्यः प्राप्तव्याः ॥१०॥ अत्राग्निनाम्ना इन्द्रनाम्ना च परमात्मनृपत्यादीनां गुणकर्मवर्णनाद्, उषर्नाम्ना प्राकृतिक्या आध्यात्मिक्याश्च उषसो वर्णनाद्, ब्रह्माण्डे शरीरे राष्ट्रे च विश्वेषां देवानां कर्तृत्वादिनिरूपणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्ति ॥ इति पञ्चमे प्रपाठके द्वितीयार्द्धे द्वितीया दशतिः ॥ इति चतुर्थेऽध्याय एकादशः खण्डः ॥
इस भाष्य को एडिट करें