Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 472
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
8

इ꣡न्द्रा꣢येन्दो म꣣रु꣡त्व꣢ते꣣ प꣡व꣢स्व꣣ म꣡धु꣢मत्तमः । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥४७२॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । इ꣣न्दो । मरु꣡त्व꣢ते । प꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡दम् ॥४७२॥


स्वर रहित मन्त्र

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । अर्कस्य योनिमासदम् ॥४७२॥


स्वर रहित पद पाठ

इन्द्राय । इन्दो । मरुत्वते । पवस्व । मधुमत्तमः । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥४७२॥

सामवेद - मन्त्र संख्या : 472
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

पदार्थः -
हे (इन्दो) चन्द्रवदाह्लादक पवित्रतादायक रसेनार्द्रयितः रसनिधे परमात्मन् ! (मधुमत्तमः) अतिशयेन मधुरः त्वम् (मरुत्वते इन्द्राय) प्राणसहचराय मम आत्मने, आत्मनो लाभार्थमित्यर्थः। (अर्कस्य) अर्चयितुः आत्मदेवस्य (योनिम्) निवासगृहं हृदयम्। योनिरिति गृहनाम। निघं० ३।४। (आसदम्२) आसत्तुम्। आङ्पूर्वात् षद्लृ धातोः तुमर्थे णमुल् प्रत्ययः। (पवस्व) गच्छ। पूङ् पवने भ्वादिः, पवते गतिकर्मा। निघं० २।१४ ॥६॥

भावार्थः - समाधिदशायां रसागारात् परमेश्वरात् स्यन्दमान आनन्दसंदोहो हृदयमभिव्याप्योपासितुर्जीवस्य महत् कल्याणं करोति ॥६॥

इस भाष्य को एडिट करें
Top