Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 510
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
7
अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य नि꣣ष्कृ꣢तम् ॥५१०॥
स्वर सहित पद पाठअ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् ॥५१०॥
स्वर रहित मन्त्र
अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥५१०॥
स्वर रहित पद पाठ
अपघ्नन् । अप । घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । अ । राव्णः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥५१०॥
सामवेद - मन्त्र संख्या : 510
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषयः - अथ सोमस्य परमात्मनः कर्म वर्णयति।
पदार्थः -
(सोमः) पवित्ररसनिधिः परमेश्वरः (इन्द्रस्य) जीवात्मनः (निष्कृतम्२) संस्कृतं हृदयरूपं गृहम् (गच्छन्) प्रसर्पन्, (मृधः३) संग्रामकारिणः पापरूपान् शत्रून् (अपघ्नन्) अपध्वंसयन्, (अराव्णः) अदानशीलान् स्वार्थभावांश्च (अप) अपघ्नन् विनाशयन्। उपसर्गावृत्त्या क्रियापदावृत्तिरध्याह्रियते इति वैदिकी शैली। (पवते) पवित्रतां प्रयच्छति ॥१४॥
भावार्थः - यदा पावकस्यानन्दरसस्य धारां प्रवाहयन् परमेश्वरः साधकस्य हृदये प्रकटीभवति तदा तदीयं हृदयं सर्ववासनारहितं स्वार्थवृत्तिविहीनं च भूत्वा पवित्रं जायते ॥१४॥ अत्र सोमस्य परमात्मनस्तज्जन्याया आनन्दरसधारायाश्च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विजानीत ॥ इति षष्ठे प्रपाठके प्रथमार्धे द्वितीया दशतिः ॥ इति पञ्चमेऽध्याये चतुर्थः खण्डः ॥
टिप्पणीः -
१. ऋ० ९।६१।२५, साम० १२१३। २. निष्कृतं संस्कृतं द्रोणकलशम्—इति भ०। ३. मृधः संग्रामं पाप्मनो वा—इति वि०। हिंसकान् शत्रून्—इति भ०।