Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 512
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
4

प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳ सोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢ । द꣣धन्वा꣡न् यो नर्यो꣢꣯ अ꣣प्स्वा꣢३꣱न्त꣢꣯रा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥५१२॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । इ꣣तः꣢ । सि꣣ञ्चत । सुत꣢म् । सो꣡मः꣢꣯ । यः । उ꣣त्तम꣢म् । ह꣣विः꣢ । द꣣धन्वा꣢न् । यः । न꣡र्यः꣢꣯ । अ꣣प्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣षा꣡व꣢ । सो꣡म꣢꣯म् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः ॥५१२॥


स्वर रहित मन्त्र

परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वान् यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥५१२॥


स्वर रहित पद पाठ

परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्तमम् । हविः । दधन्वान् । यः । नर्यः । अप्सु । अन्तः । आ । सुषाव । सोमम् । अद्रिभिः । अ । द्रिभिः ॥५१२॥

सामवेद - मन्त्र संख्या : 512
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

पदार्थः -
प्रथमः—सोमौषधिरसपक्षे। हे मनुष्याः ! (यः सोमः) य सोमरसः (उत्तमम्) उत्कृष्टतमम् (हविः) हव्यं भोज्यं वा अस्ति तम् (सुतम्) अभिषुतं सोमरसम् (इतः२) अस्मात् यज्ञवेदिस्थलाद् भोजनालयाद् वा (परि सिञ्चत) यज्ञाग्नौ जाठराग्नौ वा परितः जुहुत। संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्’ अ० ६।३।१३३ इति दीर्घः। (नर्यः) नृभ्यो हितः (यः) सोमरसः (दधन्वान्) यजमानं पातारं वा धृतवान्। धन धान्ये जुहोत्यादिः। अत्र धारणार्थः। लिटि क्वसौ रूपम्। यं च (सोमम्) सोमरसम्, अभिषोता (अद्रिभिः) ग्रावभिः अभिषवपाषाणैः, तीव्रताया न्यूनीकरणाय (अप्सु अन्तः) जलेषु मध्ये (आ सुषाव) अभिषुणोति३ ॥ अथ द्वितीयः—अध्यात्मपरः। हे मनुष्याः ! (यः सोमः) यो भक्तिरसः, उपासनायज्ञे (उत्तमं हविः) उत्कृष्टतमं हव्यम् अस्ति तम् (सुतम्) अभिषुतं भक्तिरसम्, यूयम् (इतः) अस्मात् हृदयात् (परि सिञ्चत) परितः प्रवाहयत, (नर्यः) नराणां हितकर्ता (यः) भक्तिरसः (दधन्वान्) उपासितारं धृतवान् भवति, यं च (सोमम्) भक्तिरसम्, उपासनायज्ञस्य यजमानः आत्मा (अद्रिभिः) ध्यानरूपैः अभिषवपाषाणैः (अप्सु अन्तः) प्राणेषु मध्ये (आ सुषाव) आ सुनोति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थः - यथा ब्राह्मयज्ञे भोजने वा सोमौषधिरसो ग्रावभिरभिषुत्य जलेषु सम्मिश्र्यते तथैवाध्यात्मयज्ञे भक्तिरसो ध्यानरूपैर्ग्रावभिरभिषुत्य स्वजीवनाङ्गतां नेयः ॥२॥

इस भाष्य को एडिट करें
Top