Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 556
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
5

ए꣣ष꣢꣫ प्र कोशे꣣ म꣡धु꣢माꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ व꣢ज्रो꣣ व꣡पु꣢षो꣣ व꣡पु꣢ष्टमः । अ꣣भ्यॄ꣢३त꣡स्य꣢ सु꣣दु꣡घा꣢ घृ꣣त꣡श्चुतो꣢ वा꣣श्रा꣡ अ꣢र्षन्ति꣣ प꣡य꣢सा च धे꣣न꣡वः꣢ ॥५५६॥

स्वर सहित पद पाठ

ए꣣षः꣢ । प्र । को꣡शे꣢꣯ । म꣡धु꣢꣯मान् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । व꣡ज्रः꣢꣯ । व꣡पु꣢꣯षः । व꣡पु꣢꣯ष्टमः । अ꣣भि꣢꣯ । ऋ꣣त꣡स्य꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । वा꣣श्राः꣢ । अ꣣र्षन्ति । प꣡य꣢꣯सा । च꣣ । धेन꣡वः꣢ ॥५५६॥


स्वर रहित मन्त्र

एष प्र कोशे मधुमाꣳ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः । अभ्यॄ३तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः ॥५५६॥


स्वर रहित पद पाठ

एषः । प्र । कोशे । मधुमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुष्टमः । अभि । ऋतस्य । सुदुघाः । सु । दुघाः । घृतश्चुतः । घृत । श्चुतः । वाश्राः । अर्षन्ति । पयसा । च । धेनवः ॥५५६॥

सामवेद - मन्त्र संख्या : 556
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थः -
(एषः) अयम् (मधुमान्) मधुररसमयः परमात्मसोमः (कोशे) अस्माकं मनोमयकोशे (प्र अचिक्रदत्) दिव्यं शब्दं कारयति। क्रदतेः शब्दकर्मणो णिचि लुङि रूपम्। येन (इन्द्रस्य) जीवात्मनः (वज्रः) कामक्रोधादिरिपुगणानां वर्जनसामर्थ्यम् (वपुषः वपुष्टमः२) दीप्तात् दीप्ततमः यद्वा वपुष्मतो वपुष्मत्तमः विशालाद् विशालतमः इत्यर्थः, सञ्जातः। (वाश्राः३) शब्दायमानाः। वाशृ शब्दे। वाशन्ते शब्दायन्ते इति वाश्राः, अत्र ‘स्फायितञ्चि०। उ० २।१२’ इति रक् प्रत्ययः। (धेनवः४) वेदवाग्लक्षणा गावः (ऋतस्य) सत्यस्य (सुदुघाः) सुष्ठु दोग्ध्र्यः, (घृतश्चुतः) तेजोरूपस्य घृतस्य स्रावयित्र्यश्च सत्यः (पयसा च) वेदार्थरूपेण दुग्धेन च सह (अभि अर्षन्ति) अस्मान् प्रति प्राप्नुवन्ति ॥३॥ अत्र वेदवाचि धेनुत्वारोपाद् वेदार्थे च पयस्त्वारोपाद् उपमानेनोपमेयस्य निगरणाच्चातिशयोक्तिरलङ्कारः ॥३॥

भावार्थः - यदा वेदवाग्रूपा धेनवः पवित्रं पावकं च वेदार्थरूपं स्वकीयं पयः पाययन्ति तदा तेन पयसा मनुष्यस्यात्मा सत्यमयस्तेजोमयो बलवत्तमः पवित्रः परिपुष्टश्च जायते ॥३॥

इस भाष्य को एडिट करें
Top