Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 567
ऋषिः - चक्षुर्मानवः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
5
प्र꣡ ध꣢न्वा सोम꣣ जा꣡गृ꣢वि꣣रि꣡न्द्रा꣢येन्दो꣣ प꣡रि꣢ स्रव । द्यु꣣म꣢न्त꣣ꣳ शु꣢ष्म꣣मा꣡ भ꣢र स्व꣣र्वि꣡द꣢म् ॥५६७॥
स्वर सहित पद पाठप्र꣢ । ध꣣न्व । सोम । जा꣡गृ꣢꣯विः । इ꣡न्द्रा꣢꣯य । इ꣣न्दो । प꣡रि꣢꣯ । स्र꣣व । द्युम꣡न्त꣢म् । शु꣡ष्म꣢꣯म् । आ । भ꣣र । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् ॥५६७॥
स्वर रहित मन्त्र
प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव । द्युमन्तꣳ शुष्ममा भर स्वर्विदम् ॥५६७॥
स्वर रहित पद पाठ
प्र । धन्व । सोम । जागृविः । इन्द्राय । इन्दो । परि । स्रव । द्युमन्तम् । शुष्मम् । आ । भर । स्वर्विदम् । स्वः । विदम् ॥५६७॥
सामवेद - मन्त्र संख्या : 567
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
विषयः - अथ सोमं परमात्मानं प्रार्थयते।
पदार्थः -
हे (सोम) रसागार परमात्मन् ! (जागृविः) जागरूकः त्वम् (प्र धन्व) प्रकर्षेण सक्रियो भव। धन्वतिः गतिकर्मा। निघं० २।१४। संहितायाम् ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३५’ इति दीर्घः। हे (इन्दो) भक्तानाम् आनन्दरसेन क्लेदक ! त्वम् (इन्द्राय) जीवात्मने (परिस्रव) परिक्षर। तस्मै (द्युमन्तम्) देदीप्यमानम् (स्वर्विदम्) विवेकख्यातिरूपस्य दिव्यप्रकाशस्य लम्भकम् (शुष्मम्) बलम्। शुष्म इति बलनाम। निघं० २।९। (आ भर) आहर ॥२॥
भावार्थः - मनोयोगेनोपासितः परमेश्वर उपासकानां ज्योतिष्प्रदमध्यात्मबलं प्रयच्छति ॥२॥
टिप्पणीः -
१. ऋ० ९।१०६।४ ‘भर’ इत्यत्र ‘भरा’ इति पाठः।