Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 571
ऋषिः - मनुराप्सवः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
4
प꣡व꣢स्व दे꣣व꣡वी꣢तय꣣ इ꣢न्दो꣣ धा꣡रा꣢भि꣣रो꣡ज꣢सा । आ꣢ क꣣ल꣢शं꣣ म꣡धु꣢मान्त्सोम नः सदः ॥५७१॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । इ꣡न्दो꣢꣯ । धा꣡रा꣢꣯भिः । ओ꣡ज꣢꣯सा । आ । क꣣ल꣡श꣢म् । म꣡धु꣢꣯मान् । सो꣣म । नः । सदः ॥५७१॥
स्वर रहित मन्त्र
पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम नः सदः ॥५७१॥
स्वर रहित पद पाठ
पवस्व । देववीतये । देव । वीतये । इन्दो । धाराभिः । ओजसा । आ । कलशम् । मधुमान् । सोम । नः । सदः ॥५७१॥
सामवेद - मन्त्र संख्या : 571
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
विषयः - अथानन्दरसनिर्झरणं प्रार्थयते।
पदार्थः -
हे (इन्दो) आनन्दरसेन क्लेदयितः रसागार परमात्मन् ! त्वम् (देववीतये) देवानां दिव्यगुणानां वीतिः उत्पत्तिः देववीतिः, तस्यै। देववीतिः इति पदस्य दासीभारादित्वात् ‘कुरुगार्हपत०। अ० ६।२।४२’ इत्यनेन पूर्वपदप्रकृतिस्वरः। (धाराभिः) प्रवाहसन्ततिभिः सह (ओजसा) वेगेन (पवस्व) अस्माकमन्तः-करणे प्रवाहितो भव। हे (सोम) जगदीश्वर ! (मधुमान्) मधुरानन्दोपेतः त्वम् (नः) अस्माकम् (कलशम्) कलाभिः पूर्णम् आत्मानम् (आ सधः) आगत्य स्थितो भव ॥६॥ अत्र श्लेषेण भौतिकसोमपरोऽप्यर्थो ग्राह्यः। तेन सोमपरमात्मनोरुपमानोपमेयभावः सूचितो भवति। तत उपमाध्वनिः ॥६॥
भावार्थः - यथा सोमौषधिरसो धाराभिर्द्रोणकलशमागच्छति तथा मधुरो ब्रह्मानन्दरस आत्मकलशं समागच्छेत् ॥६॥
टिप्पणीः -
१. ऋ० ९।१०६।७, साम० १३२६।