Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 617
ऋषिः - नारायणः देवता - पुरुषः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
4

स꣣ह꣡स्र꣢शीर्षाः꣣ पु꣡रु꣢षः सहस्रा꣣क्षः꣢ स꣣ह꣡स्र꣢पात् । स꣢꣯ भूमि꣢꣯ꣳ स꣣र्व꣡तो꣢ वृ꣣त्वा꣡त्य꣢तिष्ठद्द꣣शाङ्गुल꣢म् ॥६१७॥

स्वर सहित पद पाठ

स꣣ह꣡स्र꣢शीर्षाः । स꣣ह꣡स्र꣢ । शी꣣र्षाः । पु꣡रु꣢꣯षः । स꣣हस्राक्षः꣢ । स꣣हस्र । अक्षः꣢ । स꣣ह꣡स्र꣢पात् । स꣣ह꣡स्र꣢ । पा꣣त् । सः꣢ । भू꣡मि꣢꣯म् । स꣣र्व꣡तः꣢ । वृ꣣त्वा꣢ । अ꣡ति꣢꣯ । अ꣣तिष्ठत् । दशाङ्गुल꣢म् । द꣣श । अङ्गुल꣢म् ॥६१७॥


स्वर रहित मन्त्र

सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥६१७॥


स्वर रहित पद पाठ

सहस्रशीर्षाः । सहस्र । शीर्षाः । पुरुषः । सहस्राक्षः । सहस्र । अक्षः । सहस्रपात् । सहस्र । पात् । सः । भूमिम् । सर्वतः । वृत्वा । अति । अतिष्ठत् । दशाङ्गुलम् । दश । अङ्गुलम् ॥६१७॥

सामवेद - मन्त्र संख्या : 617
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

पदार्थः -
(पुरुषः) सर्वेषाम् अग्रणीः, सर्वस्मिन् जगति परिपूर्णः, सर्वेषां पालयिता वा परमेश्वरः। पुर अग्रगमने, पॄ पालनपूरणयोः इति वा धातोः ‘पुरः कुषन्’। उ० ४।७५ इति कुषन् प्रत्ययः। (सहस्रशीर्षाः) सहस्राणि असंख्यातानि शीर्षाणि शिर उपलक्षितानि ज्ञानानि यस्य सः। ‘शीर्षंश्छन्दसि’। अ० ६।१।६० इति शिरःशब्दपर्यायः शीर्षन् शब्दो वेदे प्रोक्तः, अत्र तस्य सान्तत्वम्। (सहस्राक्षः२) सहस्राणि (अक्षीणि) दर्शनसामर्थ्यानि यस्य सः। छान्दसः समासान्तोऽच् प्रत्ययः। (सहस्रपात्३) सहस्राणि असंख्याताः पादाः व्याप्तयः यस्य तादृशश्च विद्यते। संख्यासुपूर्वस्य। अ० ५।४।१४० इति पादस्यान्तलोपः। परमेश्वरस्य निरवयवत्वात् अत्र शीर्षशब्देन मस्तिष्कशक्तिः अक्षिशब्देन दर्शनशक्तिः, पादशब्देन च व्यापनशक्तिर्लक्ष्यते। सोऽनन्तबुद्धिरनन्तदर्शनः सर्वव्यापकश्च विद्यते इत्यर्थः। किञ्च (सः) असौ (भूमिम्) पृथिवीम् (सर्वतः) परितः (वृत्वा) आवृत्य (दशाङ्गुलम्४) दश च तानि अङ्गुलानि इन्द्रियाणि तेषां समाहारः दशाङ्गुलम् तत् (अति अतिष्ठत्) अतिक्रम्य तिष्ठति, दशेन्द्रियाणामगोचर इत्यर्थः। न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः (केन० १।३) इत्यादिश्रुतेः ॥३॥५ यास्काचार्यः पुरुषशब्दमेवं निर्वक्ति—पुरुषः पुरुषादः पुरिशयः पूरयतेर्वा। पूरयत्यन्तरित्यन्तः पुरुषमभिप्रेत्य। “यस्मात् परं नापरमस्ति किञ्चिद् यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चिद्। वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्” इत्यपि निगमो भवति, इति। निरु० २।३ ॥ अत्र सहस्रशीर्षत्वादिरूपस्य भूमौ सर्वत्र व्यापकत्वरूपस्य च कारणस्य सद्भावेऽपि इन्द्रियगोचरत्वरूपकार्यानुत्पत्तेर्विशेषोक्तिरलङ्कारः ॥३॥

भावार्थः - सर्वविद्यं सर्वद्रष्टारं सर्वव्यापकं सर्वतो भूगोलमावृत्य स्थितं तथापि वाक्चक्षुःश्रोत्रहस्तपादाद्यगोचरं परमपुरुषं परमात्मानं साक्षात्कृत्य सर्वैरनन्तसुखभोगः कार्यः ॥३॥

इस भाष्य को एडिट करें
Top