Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 625
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
5

स꣢ह꣣स्त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡ ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन् । क्र꣢तुं꣣ न꣡ नृ꣣म्ण꣡ꣳ स्थवि꣢꣯रं च꣣ वा꣡जं꣢ वृ꣣त्रे꣢षु꣣ श꣡त्रू꣢न्त्सु꣣ह꣡ना꣢ कृधी नः ॥६२५

स्वर सहित पद पाठ

स꣡हः꣢꣯ । तत् । नः꣣ । इन्द्र । दद्धि । ओ꣡जः꣢꣯ । ई꣡शे꣢꣯ । हि । अ꣣स्य । महतः꣢ । वि꣣रप्शिन् । वि । रप्शिन् । क्र꣡तु꣢꣯म् । न । नृ꣣म्ण꣢म् । स्थ꣡वि꣢꣯रम् । स्थ । वि꣣रम् । च । वा꣡ज꣢꣯म् । वृ꣣त्रे꣡षु꣢ । श꣡त्रू꣢꣯न् । सु꣣ह꣡ना꣢ । सु꣣ । ह꣡ना꣢꣯ । कृ꣣धि । नः ॥६२५॥


स्वर रहित मन्त्र

सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् । क्रतुं न नृम्णꣳ स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥६२५


स्वर रहित पद पाठ

सहः । तत् । नः । इन्द्र । दद्धि । ओजः । ईशे । हि । अस्य । महतः । विरप्शिन् । वि । रप्शिन् । क्रतुम् । न । नृम्णम् । स्थविरम् । स्थ । विरम् । च । वाजम् । वृत्रेषु । शत्रून् । सुहना । सु । हना । कृधि । नः ॥६२५॥

सामवेद - मन्त्र संख्या : 625
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

पदार्थः -
हे (इन्द्र) महावीर परमात्मन् राजन् वा ! त्वम् (नः) अस्मभ्यम् (तत्) सर्वैः स्पृहणीयम् (सहः) शत्रुपराजयकरम् (ओजः) अध्यात्मं शारीरं च बलम् (दद्धि) देहि, (हि) यस्मात् हे (विरप्शिन्) महामहिम ! विरप्शीति महन्नाम। निघं० ३।३। (अस्य) एतस्य (महतः) महत्त्वयुक्तस्य बलस्य, त्वम् (ईशे) ईशिषे अधीश्वरोऽसि। त्वम् अस्मभ्यम् (क्रतुम् न नृम्णम्) प्रज्ञामिव बलम्, प्रज्ञां च बलं चेत्यर्थः। क्रतुरिति प्रज्ञानाम। निघं० ३।९, नृम्णं च बलं, नॄन् नतम्। निरु० ११।७। (स्थविरं च वाजम्) प्रचुरम् ऐश्वर्यं च दद्धि देहि। किञ्च, (वृत्रेषु) दुष्टेषु शत्रुषु (नः) अस्मान् (सहना१) प्रहारसहनशीलान् (शत्रून्) शातयितॄन्। सहना इत्यत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति शसः आकारादेशः। (कृधि) कुरु ॥११॥ अत्र अर्थश्लेषालङ्कारः ॥११॥

भावार्थः - परमेश्वरस्य कृपया, नृपतेः साहाय्येन, स्वपुरुषार्थेन च वयं बलिनो धनिनः शत्रुविजयिनश्च भूयास्म ॥११॥

इस भाष्य को एडिट करें
Top