Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 635
ऋषिः - प्रस्कण्वः काण्वः देवता - सूर्यः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
7

त꣣र꣡णि꣢र्वि꣣श्व꣡द꣢र्शतो ज्योति꣣ष्कृ꣡द꣢सि सूर्य । वि꣢श्व꣣मा꣡भा꣢सि रोच꣣न꣢म् ॥६३५॥

स्वर सहित पद पाठ

त꣣र꣡णिः꣢ । वि꣣श्व꣡द꣢र्शतः । वि꣣श्व꣢ । द꣣र्षतः । ज्योतिष्कृ꣢त् । ज्यो꣣तिः । कृ꣢त् । अ꣣सि । सूर्य । वि꣡श्व꣢꣯म् । आ । भा꣣सि । रोचन꣢म् ॥६३५॥


स्वर रहित मन्त्र

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥६३५॥


स्वर रहित पद पाठ

तरणिः । विश्वदर्शतः । विश्व । दर्षतः । ज्योतिष्कृत् । ज्योतिः । कृत् । असि । सूर्य । विश्वम् । आ । भासि । रोचनम् ॥६३५॥

सामवेद - मन्त्र संख्या : 635
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment

पदार्थः -
हे (सूर्य) आदित्यवद् भासमान सर्वप्रेरक परमात्मन् ! त्वम् (तरणिः) भवसागरात् तारयिता, (विश्वदर्शतः) सर्वैर्मुमुक्षुभिर्दर्शनीयः सर्वद्रष्टा वा, (ज्योतिष्कृत्) विवेकख्यातिरूपस्य अन्तर्ज्योतिषः कर्ता (असि) विद्यसे। किञ्च, (विश्वम्) सकलम् (रोचनम्) रोचमानं ब्रह्माण्डम् (आभासि) समन्तात् प्रकाशयसि ॥ भौतिकः सूर्योऽपि (तरणिः) रोगेभ्यस्तारकः, (विश्वदर्शतः) स्वप्रकाशेन सर्वेषां पदार्थानां दर्शयिता, (ज्योतिष्कृत्) पृथिव्यादिलोकेषु प्रकाशस्य कर्त्ता च अस्ति। किञ्च, (विश्वम्) सर्वम् (रोचनम्) दीप्तं मङ्गलबुधचन्द्रादिकं ग्रहोपग्रहगणम् आभाति समन्तात् प्रकाशयति ॥९॥२ अत्र श्लेषालङ्कारः ॥९॥

भावार्थः - सूर्यपरमात्मनोर्मन्त्रोक्तान् गुणधर्मान् ज्ञात्वा सूर्यसेवनेन रोगाद्या निवारणीयाः, परमात्मध्यानेन च दुःखानि परिहृत्य मोक्षानन्दः प्रापणीयः ॥९॥

इस भाष्य को एडिट करें
Top