Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 644
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
7

वि꣣दा꣢ रा꣣ये꣢ सु꣣वी꣢र्यं꣣ भ꣢वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣र्व꣢शा꣣ꣳ अ꣡नु꣢ । म꣡ꣳहिष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ यः꣡ शवि꣢꣯ष्ठः꣣ शू꣡रा꣢णाम् ॥६४४

स्वर सहित पद पाठ

वि꣣दाः꣢ । रा꣣ये꣢ । सु꣣वी꣡र्य꣣म् । सु꣣ । वी꣡र्य꣢꣯म् । भु꣡वः꣢꣯ । वा꣡जा꣢꣯नाम् । प꣡तिः꣢꣯ । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । मँ꣡हि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । यः । श꣡वि꣢꣯ष्ठः । शू꣡रा꣢꣯णाम् ॥६४४॥


स्वर रहित मन्त्र

विदा राये सुवीर्यं भवो वाजानां पतिर्वशाꣳ अनु । मꣳहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥६४४


स्वर रहित पद पाठ

विदाः । राये । सुवीर्यम् । सु । वीर्यम् । भुवः । वाजानाम् । पतिः । वशान् । अनु । मँहिष्ठ । वज्रिन् । ऋञ्जसे । यः । शविष्ठः । शूराणाम् ॥६४४॥

सामवेद - मन्त्र संख्या : 644
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 4
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

पदार्थः -
हे जगदीश्वर ! त्वम् (राये) विद्यारोग्यधनस्वराज्यचक्रवर्ति- राज्यादिकाय ऐश्वर्याय मोक्षैश्वर्याय च, अस्मान् (सुवीर्यम्) उत्कृष्टं शारीरम् आत्मिकं च बलम् (विदाः) वेदय, लम्भय। त्वम् (वाजानाम्) बलानाम् (पतिः) अधीश्वरः (भवः) अभवः, भूतोऽसि। (वशान्) त्वां कामयमानान् त्वत्प्रीतिपरवशान् अस्मान् (अनु) अनुगृहाण। हे (मंहिष्ठ) दातृतम, हे (वज्रिन्) ओजस्विन् ! त्वम् (ऋञ्जसे) अस्मान् ओजःप्रभृतिभिः गुणैः प्रसाधय, (यः) यस्त्वम् (शूराणाम्) वीराणाम् (शविष्ठः) बलवत्तमः, असि। (विदाः) विद्लृ लाभे, ण्यर्थगर्भः, लेटि रूपम्, (भवः) भवतेर्लङि रूपम्, अडागमाभावश्छान्दसः। (वशान्), वश कान्तौ ॥४॥

भावार्थः - यः शरीरेणात्मना च बलवान् स एवैश्वर्याणि लभते। अतो बलिष्ठपरमेश्वरवद् वयमपि बलवन्तो भवेम ॥४॥

इस भाष्य को एडिट करें
Top