Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 65
ऋषिः - बृहदुक्थो वामदेव्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
7

इ꣣दं꣢ त꣣ ए꣡कं꣢ प꣣र꣡ उ꣢ त꣣ ए꣡कं꣢ तृ꣣ती꣡ये꣢न꣣ ज्यो꣡ति꣢षा꣣ सं꣡ वि꣢शस्व । सं꣣वे꣡श꣢नस्त꣣न्वे꣢३꣱चा꣡रु꣢रेधि प्रि꣣यो꣢ दे꣣वा꣡नां꣢ पर꣣मे꣢ ज꣣नि꣡त्रे꣢ ॥६५॥

स्वर सहित पद पाठ

इ꣣द꣢म् । ते꣣ । ए꣡क꣢꣯म् । प꣣रः꣢ । उ꣣ । ते । ए꣡क꣢꣯म् । तृ꣣ती꣡ये꣢न । ज्यो꣡ति꣢꣯षा । सम् । वि꣣शस्व । संवे꣡श꣢नः । स꣣म् । वे꣡श꣢꣯नः । त꣡न्वे꣢꣯ । चा꣡रुः꣢꣯ । ए꣣धि । प्रियः꣢ । दे꣣वा꣡ना꣢म् । प꣣रमे꣢ । ज꣣नि꣡त्रे꣢ ॥६५॥


स्वर रहित मन्त्र

इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशनस्तन्वे३चारुरेधि प्रियो देवानां परमे जनित्रे ॥६५॥


स्वर रहित पद पाठ

इदम् । ते । एकम् । परः । उ । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व । संवेशनः । सम् । वेशनः । तन्वे । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥६५॥

सामवेद - मन्त्र संख्या : 65
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। हे अग्ने परमात्मन् ! (इदम्) मत्समीपे विद्यमानं पार्थिवाग्निरूपम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) किंच (परः) परस्ताद् द्युलोके विद्यमानं सूर्यरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वं तद्भिन्नेन (तृतीयेन ज्योतिषा) तृतीयेन निजेन ज्योतिर्मयस्वरूपेण (संविशस्व) मदात्मनि प्रविष्टो भव। (परमे) श्रेष्ठे (जनित्रे) त्वदाविर्भावस्थाने मदात्मनि। जन्यते अत्र इति जनित्रम्। जनी प्रादुर्भावे धातोः अधिकरणे औणादिकः इत्रप्रत्ययः। (संवेशनः) प्रवेशकर्ता त्वम्। सं पूर्वाद् विश प्रवेशने धातोः कर्तरि युच्। (तन्वे) अन्नमयप्राणमयमनोमय- विज्ञानमयानन्दमयकोशसहिताय शरीराय (चारुः) हितकरः, (देवानाम्) इन्द्रियमनोबुद्ध्यादीनाम् (प्रियः) प्रियकरश्च (एधि) भव। अथ द्वितीयः—जीवात्मपरः। हे (अग्ने) जीवात्मन् ! (इदम्) चक्षुरादीन्द्रियात्मकम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) अथ च (परः) ततः परस्ताद् विद्यमानं मनोरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वम् (तृतीयेन) परमात्माख्येन (ज्योतिषा) अर्चिषा (संविशस्व) संगच्छस्व२। (परमे) सर्वोत्कृष्टे (जनित्रे) जनयितरि परमात्मनि। अत्र जनी धातोः कर्तरि इत्र प्रत्ययः। (संवेशनः) संगतः त्वम् (तन्वे) स्वाश्रयभूताय देहसंघाताय (चारुः) कल्याणकरः, (देवानाम्) दिव्यगुणानां (प्रियः) प्रेमास्पदं च (एधि) भव ॥३॥३ अत्र श्लेषालङ्कारः ॥३॥

भावार्थः - पार्थिवाग्नौ सूर्याग्नौ च परमात्मन एव ज्योतिः प्रदीप्यते, यथोक्तम्—अ॒ग्नाव॒ग्निश्चर॑ति॒ प्रवि॑ष्टः॒। अथ० ४।३९।९, यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम्। य० ४०।१७, तस्य भासा सर्वमिदं विभाति। कठ० ५।१५ इति। अतस्तज्जोतिर्द्वयमपि परमात्मन एव। परं तस्य वास्तविकं तृतीयं ज्योतिस्तदीयं स्वात्मनिष्ठं स्वाभाविकं तेज एव। तेनैव तेजसा भक्तजनानामात्मानं प्रविश्य स तेषां कल्याणं करोति, शरीरप्राणमनोबुद्ध्यादीनां च हितं सम्पादयति। अतस्तस्य तृतीयं ज्योतिराप्तुं योगाभ्यासविधिना सर्वैः प्रयत्नोऽनुष्ठेयः। मन्त्रस्य द्वितीयेऽर्थे जीवात्मा समुद्बोधितः—हे जीवात्मन् ! एकं ते ज्योतिः चक्षुः-श्रोत्रादिकम्, द्वितीयं ज्योतिर्मनः ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ इति श्रुतेः। एतज्ज्योतिर्द्वयं तव साधनरूपमेव, साध्यरूपं ज्योतिस्तु तृतीयं परमात्मज्योतिरस्ति। अतस्तदेवाधिगन्तुं प्राणपणेन यतस्व ॥३॥

इस भाष्य को एडिट करें
Top