Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 653
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
स꣡ नः꣢ पवस्व꣣ शं꣢꣫ गवे꣣ शं꣡ जना꣢꣯य꣣ श꣡मर्व꣢꣯ते । श꣡ꣳ रा꣢ज꣣न्नो꣡ष꣢धीभ्यः ॥६५३॥
स्वर सहित पद पाठसः꣢ । नः꣣ । पवस्व । श꣢म् । ग꣡वे꣢꣯ । शम् । ज꣡नाय꣢꣯ । शम् । अ꣡र्वते꣢꣯ । शम् । रा꣣जन् । ओ꣡ष꣢꣯धीभ्यः । ओ꣡ष꣢꣯ । धी꣣भ्यः ॥६५३॥
स्वर रहित मन्त्र
स नः पवस्व शं गवे शं जनाय शमर्वते । शꣳ राजन्नोषधीभ्यः ॥६५३॥
स्वर रहित पद पाठ
सः । नः । पवस्व । शम् । गवे । शम् । जनाय । शम् । अर्वते । शम् । राजन् । ओषधीभ्यः । ओष । धीभ्यः ॥६५३॥
सामवेद - मन्त्र संख्या : 653
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरः प्रार्थ्यते।
पदार्थः -
हे (राजन्) विश्वसम्राट् परमात्मन् ! (सः) प्रसिद्धः त्वम् (नः) अस्माकम् (गवे) धेनवे, वाचे, इन्द्रियादिकाय वा (शम्) कल्याणम्, (जनाय) मातापितृपुत्रपौत्रकलत्रसेवकादिजनाय (शम्) कल्याणम्, (अर्वते) अश्वाय, प्राणाय, शत्रुहिंसकाय वीराय वा (शम्) कल्याणम्, (ओषधीभ्यः) व्रीहियवगोधूमलतागुल्मवृक्षवनस्पत्यादिभ्यो दोषनिवारिकाभ्यः शुद्धचित्तवृत्तिभ्यो वा (शम्) कल्याणम् (पवस्व) प्रक्षारय। [ओषधय ओषद् धयन्तीति वा, ओषत्येना धयन्तीति वा, दोषं धयन्तीति वा। निरु० ९।२७] ॥३॥
भावार्थः - परमेश्वरोपासनेन सर्वैर्दैहिकं मानसमात्मिकं पारिवारिकं सामाजिकं राष्ट्रियं च कल्याणं प्राप्तुं योग्यम् ॥३॥
टिप्पणीः -
१. ऋ० ९।११।३।