Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 674
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ए꣣ना꣡ विश्वा꣢꣯न्य꣣र्य꣢꣫ आ द्यु꣣म्ना꣢नि꣣ मा꣡नु꣢षाणाम् । सि꣡षा꣢सन्तो वनामहे ॥६७४॥
स्वर सहित पद पाठए꣣ना꣢ । वि꣡श्वा꣢꣯नि । अ꣡र्यः꣢ । आ । द्यु꣡म्ना꣡नि꣢ । मा꣡नु꣢꣯षाणाम् । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥६७४॥
स्वर रहित मन्त्र
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥६७४॥
स्वर रहित पद पाठ
एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिषासन्तः । वनामहे ॥६७४॥
सामवेद - मन्त्र संख्या : 674
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - तृतीया ऋक् पूर्वार्चिके ५९३ क्रमाङ्के परमात्मानं संबोध्य व्याख्याता। अत्र गुरुः सम्बोध्यते।
पदार्थः -
हे पवमान सोम ! अस्मदन्तःकरणानां पवित्रकर्त्तः गुरो ! (अर्यः२) विद्यानामधीश्वरः त्वम् (एना) एनानि (विश्वानि) सर्वाणि (द्युम्नानि) विद्याधनानि (मानुषाणाम्) मननशीलानां शिष्याणामस्माकम् (आ) आगमय, प्रापय। तानि विद्याधनानि (सिषासन्तः) अन्येभ्यो दातुमिच्छन्तो वयम् (वनामहे३) संभजामहे ॥३॥४
भावार्थः - ये मनुष्या गुरूणां सकाशाद् विविधा भौतिकविद्या अध्यात्मविद्याश्चाधीत्यान्यान् पाठयन्ति त एव गुरुऋणान्मुच्यन्ते ॥३॥
टिप्पणीः -
१. ऋ० ९।६१।११, य० २६।१८, साम० ५९३। २. अर्यः यजमानः—इति वि०। ३. सिषासन्तः साधयन्तः। वनामहे आह्वयामः—इति वि०। ४. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘ईश्वरः कथमुपास्यः’ इति विषये व्याचष्टे। तत्र तन्मते महीयव ऋषिः, विद्वान् देवता।