Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 679
ऋषिः - उशना काव्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
10
ऋ꣢षि꣣र्वि꣡प्रः꣢ पुरए꣣ता꣡ जना꣢꣯नामृ꣣भु꣡र्धीर꣢꣯ उ꣣श꣢ना꣣ का꣡व्ये꣢न । स꣡ चि꣢द्विवेद꣣ नि꣡हि꣢तं꣣ य꣡दा꣢सामपी꣣च्या꣢३꣱ꣳ गु꣢ह्यं꣣ नाम गो꣡ना꣢म् ॥६७९॥
स्वर सहित पद पाठऋ꣡षिः꣢꣯ । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । पुरएता꣢ । पु꣣रः । एता꣢ । ज꣡ना꣢꣯नाम् । ऋ꣣भुः꣢ । ऋ꣣ । भुः꣢ । धी꣡रः꣢꣯ । उ꣢श꣡ना꣢ । का꣡व्ये꣢꣯न । सः । चि꣣त् । विवेद । नि꣡हि꣢꣯तम् । नि । हि꣣तम् । य꣣त् । आ꣣साम् । अपी꣡च्य꣢म् । गु꣡ह्य꣢꣯म् । ना꣡म꣢꣯ । गो꣡ना꣢꣯म् ॥६७९॥
स्वर रहित मन्त्र
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्या३ꣳ गुह्यं नाम गोनाम् ॥६७९॥
स्वर रहित पद पाठ
ऋषिः । विप्रः । वि । प्रः । पुरएता । पुरः । एता । जनानाम् । ऋभुः । ऋ । भुः । धीरः । उशना । काव्येन । सः । चित् । विवेद । निहितम् । नि । हितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥६७९॥
सामवेद - मन्त्र संख्या : 679
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि गुरुं वर्णयति।
पदार्थः -
अस्माकं गुरुः (ऋषिः) वेदमन्त्राणां रहस्यस्य द्रष्टा, (विप्रः) ब्राह्मणवृत्तिः, (जनानाम्) मनुष्याणाम् (पुरः एता) अग्रगन्ता, (ऋभुः) मेधावी। [ऋभु इति मेधाविनाम। निघं० ३।१५।] (धीरः) धैर्यशाली, (काव्येन) काव्यरचनया (उशना) जगतो हितं कामयमानः, अस्ति इति शेषः। [वष्टि हितं कामयते यः स उशना। वश कान्तौ।] (सः चित्२) स एव (आसां गोनाम्३) एतासां वेदवाचाम् (यत् अपीच्यम्) अन्तर्हितम्। [अपीच्यमिति निर्णीतान्तर्हितनाम। निघं० ३।२५।] [अपीच्यम् अपचितम् अपगतम् अपहितम् अन्तर्हितं वा। निरु० ४।२४।] (गुह्यम्) रहस्यमयम् (नाम) अर्थः (निहितम्) अवस्थितमस्ति, तद् (विवेद) विशेषेण वेत्ति ॥३॥
भावार्थः - यः सुगम्भीरस्यापि वेदादिवाङ्मयस्य रहस्यार्थं हस्तामलकवत् प्रत्यक्षतो वेत्ति स एव ऋषिर्मेधावी विप्रो गुरुत्वेन स्वीकरणीयः ॥३॥ अस्मिन् खण्डे गुरुशिष्यसम्बन्धवर्णनाद् गुरोः सकाशाल्लौकिकीं विद्यां ब्रह्मविद्यां चाधीत्यैव जनाः परब्रह्मसाक्षात्कारं कर्त्तुं प्रभवन्तीत्येतद्वर्णनाच्चास्य खण्डस्य पूर्वखण्डेन सह संगतिरस्तीति वेद्यम्।
टिप्पणीः -
१. ऋ० ९।८७।३ २. चित् शब्दः च शब्दस्यार्थे द्रष्टव्यः—इति वि०। ३. आसां गोनां गवामादित्यरश्मीनां वा—इति वि०।