Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 684
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - पादनिचृत् (गायत्री) स्वरः - षड्जः काण्ड नाम -
4

अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितॄ꣣णा꣢म् । श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥६८४॥

स्वर सहित पद पाठ

अ꣣भि꣢ । सु । नः꣣ । स꣡खी꣢꣯नाम् । स । खी꣣नाम् । अविता꣢ । ज꣣रितॄणा꣢म् । श꣣त꣢म् । भ꣣वासि । ऊत꣡ये꣢ ॥६८४॥


स्वर रहित मन्त्र

अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतये ॥६८४॥


स्वर रहित पद पाठ

अभि । सु । नः । सखीनाम् । स । खीनाम् । अविता । जरितॄणाम् । शतम् । भवासि । ऊतये ॥६८४॥

सामवेद - मन्त्र संख्या : 684
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे इन्द्र जगदीश्वर ! त्वम् (सखीनाम्) त्वया सह सख्यं स्थापितवताम् (जरितॄणाम्) स्तोतॄणाम् (नः) अस्माकम् (शतम् ऊतये) शतवर्षपर्यन्तं प्रीतये (अविता) रक्षकः (सु) सम्यक् (अभि) अभितः (भवासि) भव। [संहितायाम् अभी षु णः इत्यत्र ‘इकः सुञि’ अ० ६।३।१३४ इति दीर्घः ‘सुञः’ अ० ८।३।१०७ इति षत्वम्। ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। भवासि, भवतेर्लोटि रूपम्।] ॥३॥२

भावार्थः - ये जीवात्मानः परमात्मनः सखायो जायन्ते तेषां स महत् कल्याणं करोति ॥३॥

इस भाष्य को एडिट करें
Top