Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 695
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
4
अ꣣यं꣡ भरा꣢꣯य सान꣣सि꣡रिन्द्रा꣢꣯य पवते सु꣣तः꣢ । सो꣢मो꣣ जै꣡त्र꣢स्य चेतति꣣ य꣡था꣢ वि꣣दे꣢ ॥६९५॥
स्वर सहित पद पाठअ꣣य꣢म् । भ꣡रा꣢꣯य । सा꣣नसिः꣢ । इ꣡न्द्रा꣢꣯य । प꣣वते । सुतः꣢ । सो꣡मः꣢꣯ । जै꣡त्र꣢स्य । चे॓तति । य꣡था꣢ । वि꣢दे꣢ ॥६९५॥
स्वर रहित मन्त्र
अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥६९५॥
स्वर रहित पद पाठ
अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः । सोमः । जैत्रस्य । चे॓तति । यथा । विदे ॥६९५॥
सामवेद - मन्त्र संख्या : 695
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
(भराय) संग्रामाय, देवासुरसंग्रामं विजेतुमित्यर्थः (सानसिः२) संभजनीयः। [सानसिवर्णसिपर्णसि०। उ० ४।१०८ इत्यनेन संभजनार्थात् षण धातोः असिप्रत्ययः उपधावृद्धिश्च।] (सुतः) आचार्येण शिष्ये प्रेरितः (अयम्) एष ज्ञानकर्मोपासनारूपः सोमरसः (इन्द्राय) आत्मने (पवते) प्रवहति। [पवते गतिकर्मा। निघं० २।१४।] (जैत्रस्य) विजयशीलस्य तस्य इन्द्रस्य जीवात्मनः सः (सोमः) ज्ञानकर्मोपासनारसः (चेतति) सदैव जागृयात्, (यथा) येन, सः (विदे) सर्वदा कर्तव्याकर्तव्यं विजानीयात्। [विद ज्ञाने आत्मनेपदं छान्दसम्। वित्ते इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ इति तकारलोपः] ॥२॥
भावार्थः - ज्ञानं, तदनुकूलं कर्म, परमेश्वरोपासना च सदैव मनुष्यं संसारसमराङ्गणे विजयिनं कुर्वन्ति ॥२॥
टिप्पणीः -
१. ऋ० ९।१०६।२। २. सानसिः साधयिता—इति वि०।