Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 698
ऋषिः - अन्धीगुः श्यावाश्विः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

यो꣡ धार꣢꣯या पाव꣣क꣡या꣢ परिप्र꣣स्य꣡न्द꣢ते सु꣣तः꣢ । इ꣢न्दु꣣र꣢श्वो꣣ न꣡ कृत्व्यः꣢꣯ ॥६९८॥

स्वर सहित पद पाठ

यः । धा꣡र꣢꣯या । पा꣣वक꣡या꣢ । प꣣रिप्रस्य꣡न्द꣢ते । प꣣रि । प्रस्य꣡न्द꣢ते । सु꣣तः꣢ । इ꣡न्दुः꣢꣯ । अ꣡श्वः꣢꣯ । न । कृ꣡त्व्यः꣢꣯ ॥६९८॥


स्वर रहित मन्त्र

यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥६९८॥


स्वर रहित पद पाठ

यः । धारया । पावकया । परिप्रस्यन्दते । परि । प्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः ॥६९८॥

सामवेद - मन्त्र संख्या : 698
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(सुतः) निष्पादितः (यः) यः (पावकया) पवित्रतादायिन्या (धारया) प्रवाहसन्तत्या (परिप्रस्यन्दते) सर्वतः प्रवहति, सः (इन्दुः) ज्ञानकर्मोपासनाजन्यः आनन्दः (कृत्व्यः) संग्रामकर्मणि कुशलः (अश्वः न) तुरगः इव (कृत्व्यः२) कृतार्थयिता भवति। [कृत्वी इति कर्मनाम, निघं० २।१, तत्र साधुः कृत्व्यः। साध्वर्थे यत्।] ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥

भावार्थः - धन्याः खलु ते ये ज्ञानकर्मोपासनाजन्यं प्रचुरमानन्दमनुभवन्ति ॥२॥

इस भाष्य को एडिट करें
Top