Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 704
ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
4

ऊ꣣र्जो꣡ नपा꣢꣯त꣣ꣳ स꣢ हि꣣ना꣡यम꣢꣯स्म꣣यु꣡र्दाशे꣢꣯म ह꣣व्य꣡दा꣢तये । भु꣢व꣣द्वा꣡जे꣢ष्ववि꣣ता꣡ भुव꣢꣯द्वृ꣣ध꣢ उ꣣त꣢ त्रा꣣ता꣢ त꣣नू꣡ना꣢म् ॥७०४॥

स्वर सहित पद पाठ

ऊ꣡र्जः꣢ । न꣡पा꣢꣯तम् । सः । हि꣣न꣢ । अ꣣य꣢म् । अ꣣स्म꣢युः । दा꣡शे꣢꣯म । ह꣣व्य꣢꣯दातये । ह꣣व्य꣢ । दा꣣तये । भु꣡व꣢꣯त् । वा꣡जे꣢꣯षु । अ꣣वि꣢ता । भु꣡व꣢꣯त् । वृ꣣धे꣢ । उ꣣त꣢ । त्रा꣣ता꣢ । त꣣नू꣡ना꣢म् ॥७०४॥


स्वर रहित मन्त्र

ऊर्जो नपातꣳ स हिनायमस्मयुर्दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥७०४॥


स्वर रहित पद पाठ

ऊर्जः । नपातम् । सः । हिन । अयम् । अस्मयुः । दाशेम । हव्यदातये । हव्य । दातये । भुवत् । वाजेषु । अविता । भुवत् । वृधे । उत । त्राता । तनूनाम् ॥७०४॥

सामवेद - मन्त्र संख्या : 704
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(ऊर्जः) बलस्य (नपातम्) न पातयितारम् अग्निं परमेश्वरम्, अहम् (प्रप्र शंसिषम्) पुनः पुनः प्रशंसामि। [प्रप्र शंसिषम् इति पूर्वमन्त्रादाकृष्यते।] (सः अयम्) स एषः (हिन२) निश्चयेन(अस्मयुः) अस्मान् कामयमानः अस्ति। (हव्यदातये) दातव्यानां सद्गुणादीनां दात्रे तस्मै परमेश्वराय, वयम् (दाशेम) आत्मानं समर्पयेम। [हव्यानां दातिः दानं यस्मात् स हव्यदातिः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः।] सः (वाजेषु) देवासुरसंग्रामेषु, अस्माकम्(अविता) रक्षकः (भुवत्) भवेत्, (वृधः) वर्धकः, (भुवत्) भवेत्, (उत) अपि च (तनूनाम्) अस्माकम् अन्नमयप्राणमयमनोमयादिदेहानाम् (त्राता) त्राणकर्ता, भुवत् भवेत् ॥२॥३

भावार्थः - मनुष्याः स्वात्मानं परमात्मने समर्प्य कल्याणं प्राप्तुमर्हन्ति ॥२॥

इस भाष्य को एडिट करें
Top