Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 705
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ए꣢ह्यू꣣ षु꣡ ब्रवा꣢꣯णि꣣ ते꣡ऽग्न꣢ इ꣣त्थे꣡त꣢रा꣣ गि꣡रः꣢ । ए꣣भि꣡र्व꣢र्धास꣣ इ꣡न्दु꣢भिः ॥७०५॥
स्वर सहित पद पाठआ꣢ । इ꣣हि । ऊ । सु꣢ । ब्र꣡वा꣢꣯णि । ते꣣ । अ꣡ग्ने꣢꣯ । इ꣣त्था꣢ । इ꣡त꣢꣯राः । गि꣡रः꣢꣯ । ए꣣भिः꣢ । व꣣र्द्धासे । इ꣡न्दु꣢꣯भिः ॥७०५॥
स्वर रहित मन्त्र
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥७०५॥
स्वर रहित पद पाठ
आ । इहि । ऊ । सु । ब्रवाणि । ते । अग्ने । इत्था । इतराः । गिरः । एभिः । वर्द्धासे । इन्दुभिः ॥७०५॥
सामवेद - मन्त्र संख्या : 705
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ७ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्र गुरुः शिष्यं सम्बोधयति।
पदार्थः -
हे (अग्ने) तपस्विन् विद्यार्थिन् ! [तपो वा अग्निः। श० ३।४।३।२।] (एहि उ) आगच्छ खलु। अहम् (ते) तुभ्यम् (सु) सम्यक् (इत्था) सत्यम् (इतराः) सामान्यविलक्षणाः (गिरः) शास्त्रवाचः (ब्रवाणि) उपदिशानि। त्वम् (एभिः) एतैः (इन्दुभिः) विद्यारसैः (वर्धासे) वर्धस्व ॥१॥२
भावार्थः - गुरुभिः प्रेम्णा समाहूय शिष्या मनोयोगेन पाठनीयाः ॥१॥
टिप्पणीः -
१. ऋ० ६।१६।१६, य० २६।१३, साम० ७। २. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।