Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 707
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

न꣡ हि ते꣢꣯ पू꣣र्त꣡म꣢क्षि꣣प꣡द्भुव꣢꣯न्नेमानां पते । अ꣢था꣣ दु꣡वो꣢ वनवसे ॥७०७॥

स्वर सहित पद पाठ

न꣢ । हि । ते꣣ । पूर्त꣢म् । अ꣣क्षिप꣢त् । अ꣣क्षि । प꣢त् । भु꣡व꣢꣯त् । ने꣣मानाम् । पते । अ꣡थ꣢꣯ । दु꣡वः꣢꣯ । व꣣नवसे ॥७०७॥


स्वर रहित मन्त्र

न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते । अथा दुवो वनवसे ॥७०७॥


स्वर रहित पद पाठ

न । हि । ते । पूर्तम् । अक्षिपत् । अक्षि । पत् । भुवत् । नेमानाम् । पते । अथ । दुवः । वनवसे ॥७०७॥

सामवेद - मन्त्र संख्या : 707
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (नेमानां२ पते) अपूर्णानाम् अस्माकम् [त्वो नेम इत्यर्धस्य। निरु० ३।२०।] पालक आचार्यवर ! (ते) तव (पूर्तम्) पालनं, पूरणं (अक्षि-पत्) नेत्रादीनाम् इन्द्रियाणां पातयितृ (नहि) नैव (भुवत्) भवेत्। (अथ) अपि च, त्वम् अस्माकम् (दुवः) परिचरणम्। [दुवस्यतिः परिचरणकर्मा निघं० ३।५।] (वनवसे) सम्भजस्व। [वन सम्भक्तौ, लेटि रूपम्] ॥३॥३

भावार्थः - गुरवः शिष्यान् सम्यगध्याप्य सदाचारे प्रवर्त्तयेयुः, शिष्याश्च तान् श्रद्धया सत्कुर्युः ॥३॥

इस भाष्य को एडिट करें
Top