Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 721
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

इ꣣च्छ꣡न्ति꣢ दे꣣वाः꣢ सु꣣न्व꣢न्तं꣣ न꣡ स्वप्ना꣢꣯य स्पृहयन्ति । य꣡न्ति꣢ प्र꣣मा꣢द꣣म꣡त꣢न्द्राः ॥७२१॥

स्वर सहित पद पाठ

इ꣣च्छ꣡न्ति꣢ । देवाः꣢ । सु꣣न्व꣡न्त꣢म् । न । स्व꣡प्ना꣢꣯य । स्पृ꣣हयन्ति । य꣡न्ति꣢꣯ । प्र꣣मा꣡द꣢म् । प्र꣣ । मा꣡द꣢꣯म् । अ꣡त꣢꣯न्द्राः । अ । त꣣न्द्राः ॥७२१॥


स्वर रहित मन्त्र

इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ॥७२१॥


स्वर रहित पद पाठ

इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति । यन्ति । प्रमादम् । प्र । मादम् । अतन्द्राः । अ । तन्द्राः ॥७२१॥

सामवेद - मन्त्र संख्या : 721
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
(देवाः) विद्वांसो गुरवः (सुन्वन्तम्) पुरुषार्थरूपसोमनिष्पादिनम् एव विद्यार्थिनम् (इच्छन्ति)शिष्यत्वेन वाञ्छन्ति, ते (स्वप्नाय) निद्रालवे शिष्याय (न स्पृहयन्ति) न रुचिं कुर्वन्ति। (प्रमादम्) यो विद्याध्ययनेन प्रकर्षतो माद्यति स प्रमादः तम् (अतन्द्राः) अनलसाः सन्तः (यन्ति) प्राप्नुवन्ति ॥३॥

भावार्थः - लौकिकविद्याया ब्रह्मविद्यायाश्चापि प्राप्तिः पुरुषार्थादेव जायते। पुरुषार्थिन एवेतरेऽपि जनाः साहाय्यं कुर्वन्ति न निष्कर्मण्यस्य ॥३॥

इस भाष्य को एडिट करें
Top